पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

दत्तास्कन्दास्तु दुल्लाद्याः संरम्भेण युयुत्सवः
माययोदयसिंहेन दाम्भिकेनैत्य वञ्चिताः ॥ १०५४ ॥
यूयं पुत्रा ममेत्युक्तवतस्ते धार्मिकस्य यत् ।
प्रत्ययात्तस्य शस्त्राणि तत्यजुर्जीवितेच्छवः ॥ १०५५ ॥
राज्ञो विशुद्धिः क्रियतां पार्श्वमेत्येति तद्वचः ।
तैः समागत्य जगृहे मार्गों राजगृहान्प्रति ॥ १०५६ ॥
तन्वङ्गजगृहोच्छिदैर्वाल एव विवर्धितः ।
दुल्लुं ततो विहस्यैवं स्वच्छत्र
छत्रग्राहकोवदत् ॥ १०५७ ॥
तन्वङ्गनतो यत्पूर्व जयराजमभाषथाः ।
न त्वं निःसत्त्व कय्याया इति तद्विस्मृतं तव ॥ १०५८ ।।
स ते तादृश एवायं वर्तते संकटः क्षण |
कि धैर्यावसरे मूढ वैलव्यमवलम्वसे ॥ १०५९ ॥
तस्माज्जातोसि नियतं मत्पित्रोच्छिष्टमुष्टिना ।
अहं तु तेन वीरेण त्वत्पित्रा कीर्तिभागिना ॥ १०६० ॥
इत्युक्त्वा स रणे गृह्णन्खड्डधाराजलंजलाम् ।
पपात जन्ममालिन्यं मानी प्रक्षालयन्निव
नृपान्तिकं प्रयास्याम इति निश्चयतस्ततः ।
ढुल्लादीन्राजपुरुषाः कारागारे निचिक्षिपुः ॥ १०६२ ॥
ते यौवनभरोन्मत्ता द्रुमा वासन्तिका इव ।
प्रत्यभासन्त कारुण्याद्रक्षणीयाः क्षमाभुजः ॥ १०६३ ॥
टक्कस्तु बिम्वियो नाम पापः संप्रेक्ष्य भूभुजम् ।
न्यजिग्रहत्तान्ग्रीवासु निशि पाशान्निवेशयन् ॥ १०६४ ॥
गुल्लो विजयराजश्च वल्लो गुल्लच तेलुठन् ।
तन्वङ्गपौवाश्चत्वारो हता वध्यमहीतले ॥ १०६५ ॥

१ संकटक्षण: इत्युचितम् । २ झलज्झलाम् इति स्यात् । ३ टुल्लो इति स्यात् । ●