सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

2३२४ रजतरङ्गिणी



 
असिद्धिभीत्या स्वं दतं स प्रहिण्वप्रयागकः ।
समन्त्र्य क्रियतामेतदित्यूचे कुपितो नृपम्‌ ॥ १०४२ ॥
राज्ञि मन्त्रियमाणेथ पञ्चानीयाग्यमन्त्रिणः ।
वामनः सागरे व्दारे त्यक्तदेहोव्रवीद्वचः ॥ १०४३ ॥
मन्त्रश्च मत्रिणश्चेते न यावन्निःसृता बहिः ।
तावत्क्रियेत येत चेदेतन्न भद्राणि दरिद्रति ॥ १०४४ ॥
राजाज्ञया प्रयागेण ततो दूते विसर्जिते ।
तीक्ष्णः कलशराजाख्यस्तनयाभ्यां सहाययौ ॥ १०४५ ॥
तस्मिन्प्रसङ्गे तान्वङ्गिः श्यनस्य दददातपम्‌ ।
राजधान्यन्तरेवासीद्द्वित्रैरनुचरैः समम्‌ ॥ १०४६ ॥

पुरः कलशराजं तं दृष्ट्वा पश्चाच्च तत्सुतौ ।
यावत्सशङ्कमाचख्यौ तावभृत्यैर्निजैर्जहे ॥ १०४७ ॥
शक्तोपि धम्मटः क्रष्टुं कृपाणीमिति वादिनम्‌ ।
हन्तुं कलशराजं तु यावच्छस्त्रे व्यधात्करम्‌ ॥ १०४८ ॥
तावत्तेनाग्रतः पश्चात्तत्पुत्राभ्यां छृताहतिः ।
आसनादुच्चलन्नेव क्षिप्रं पराणैरमुच्यत ॥ १०४९ ॥
मुमूषुर्णा क्षतस्तेन ज्यायान्क कलशराजजः ।
चित्रमायुधवैगुण्यान्नाभीक्ष्ण व्रणितोभवत्‌ ॥ १०५० ॥
तस्य ह्यभाग्ययोगेन तेष्वेवाहःसु शस्त्रिणः ।

निजा कृपाणी तुत्रोट तेनाभद्रायुधोभवत्‌ ॥ १०५१ ॥
निहत्य पातितः पृष्ठात्स तैर्व्याधैरिवाण्डजः ।

शुनां ग्रासाय संत्यक्तः श्वपाकैः पार्थिवाज्ञया ॥ १०५२ ॥
राज्ञा तन्वनप्तारौ स्वयं रह्लणसह्लणौ ।
" आगत्य प्राङ्गणे त्यक्तकृपाणी परिरक्षितौ ॥ १०५३ ॥

दूतमप्रहिण्वन् इति स्यात्‌ । २ मन्त्रयमाणे इत्युचितम्‌ ।


दूतमप्रहिण्वन् इति स्यात्‌ । २ मन्त्रयमाणे इत्युचितम्‌ ।