पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ¦ २२

अप्रसन्नस्त्वयि नृपो यद्यद्रोहोसि निश्चयात्‌ ।

 तत्त्वयाशु वि शुद्ध्यर्थमसिधेनुः समर्प्यताम्‌ ॥ १०३१ ॥

दैवेन वा मोहितः स तद्धिश्वासेन वालयजत्‌ ।

आक्षिप्यमाणः शस्त्रास्त्रकोविदः शस्त्रमन्यवत्‌ ॥ १०३२ ॥
 वैक्ल्व्यदर्शनात्सेर्ष्यस्ततः स परुषां गिरम्‌ ।
तन्वङ्गपौत्रष्टुल्लाख्यस्तं जगादाज्जकात्मजः ॥ १०३३ ॥
न त्वं निःसत्त्व कय्याया जातः कलदाभूभुजा ।
आसीज्ज्नयिता नूनं क्लीबो यः कश्चदेव ते ॥ १०३४ ॥
निष्ठायां धैर्यचर्यणां परिणाममजानता ।
तेनेत्युक्तः स रीताम्बुसिक्तसुप्तोपमोभवत्‌ ॥ १०३५ ॥
 युगलकम्‌ ॥
द्रोहोदन्तं पृच्छ्यमानो धीरस्तन्मध्यपातिनम्‌ ।
यातनाक्लेशितोप्यूचे स्वमेव न तु धम्मटम्‌ ॥ १०३६ ॥
विषघ्नमन्त्रवीर्येण मोघीकृतविपाशनः ।
रज्ज्वा निपीड्य ग्रीवाग्रं ततो निशि विपादितः ॥१९०३७॥
जय्यकेन प्रतीहर्त्रा शिरश्छित्त्त्वोज्झितं ययौ ।
भट्टारनड्वलातोये तद्वपुर्मत्स्य भोज्यताम्‌ ॥ १०३८ ॥
तमेकसप्तते वर्च हत्वा भाद्रपदे नृपः।
वधं गभीरहदयो धम्मटस्पाप्यचिन्तयत्‌ ॥ १०२९. ॥
आदिदेशाथ तत्सिद्धैः रहः शस्त्रभृतां वरम्‌ ।
 शूरं कलशराजाख्यं ठक्कुरं लोहराश्रयम्‌ ॥ १०४० ॥
प्रहिणोति यदा दूतं प्रयागस्ते तदा त्वया ।
संपाद्यमेतदित्यूचे तं चोपचितसत्क्रियम्‌ ॥ १०४१ ॥