३२२ राजतरङ्गिणी
तदावेदिततद्वार्तात्प्रायागात्तत्कथां ततः ।
बुद्ध्वा निवर्तयामास धम्मटं गमनान्नृपः ॥ १०२० ॥
कुलक्षयभयात्तिष्ठंस्तत्प्रतीकारमन्थरः ।
स्वमेव केवलं रक्षन्नासीत्स चकितोन्वहम् ॥ २०२१ ॥
असिद्धिं जयराजस्तु दृष्ट्वा दूतैः स्वंसमुखौ ।
शमालडामरौ वीरौ वागपाजाभिधौ व्यधात् ॥ ९०२२ ॥
स्वभृत्यैर्भेदनिर्यासुंदनिर्यातैर्यियासुं तं निवेदितम् ।
श्रुत्वा क्षपायां क्षितिभृद्दिक्षु चिक्षेप रक्षिणः ॥ १०२३ ॥
व्याजाद्यात्रां वदन्सज्जः प्रातस्तान्वङ्गिरेव तम् ।
चतुष्कं पूजने धूर्तो जयराजमुपानयत् ॥ १०२४ ॥
राज्ञो दत्तार्गले धास्नि स्थितस्यास्थानमण्डपम् ।
सत्रा स भ्रातृपुत्रेण धम्मटेन ततोविशत् ॥ १०२५ ॥
रक्षिणोथ बहिर्न्य॑स्य प्रयागः पाथिवाज्ञया ।
जयराजं बधानेति नीचैर्धम्मटमभ्यधात् ॥ १०२६ ॥
धम्मटे विभ्वसञ्शस्त्रं जयराजस्त्यजेद्धुवम् ।
निदेशेनामुना वेत्ति स्वमज्ञातं च धम्मटः ॥ १०२७ ॥
द्वयोरेकस्य वा युद्धे तयोर्मृत्यौ हितं च नः ।
व्यक्तीकृतैक्ययोर्वापि वधो लोकेप्यगर्हितः ॥ १०२८ ॥
इति निर्ध्यायतः शश्वदविरोधेन वेधसः ।
प्रज्ञास्य प्रत्यभाद्राज्ञो मन्त्रो युक्ततमस्तथा ॥ १०२९ ॥
तिलकम् ||
नाबुद्ध मां ध्रुवं राजा तान्वङ्गिरिति विश्वसन् ।
जयराजमुपागत्य ततो धार्ष्ट्याद्वचोव्रवीत् ॥ १०३० ॥
१ प्राज्ञस्य इत्युचितम् । २ तदा इत्युचितम् ¦
1
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३३१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति