सप्तमस्तरङ्गः ।
व्याघ्रं निहत्योग्रसत्त्वं वाराणस्यां निरस्यता ।
पूर्वा दिग्भूषिता तेन मठैः सुकृतकर्मठैः ॥ १०१० ॥
ते तन्निर्वासनादेव लब्धलक्षाः कुमत्रिणः |
अन्योन्यासूयया जघ्नुरथ कार्याणि भूभुजः ॥ १०११ ॥
॥
स्वैराहारोदितगुरुमदाः शृङ्गकण्डूतिशान्त्यै
दुर्वारेर्ष्याकलुषमतयो यत्र दुर्मत्रिमेषाः ।
अन्त्यन्योन्यं भवति गणितैर्वासरैरेव कैश्चि
न्मध्यस्थाणोरिव नरपतेस्तत्र सर्वाङ्गभङ्गः ॥ १०१२ ॥
अतिक्रामति कालेथ पार्थिवं हन्तुमुद्यमम् ।
दुद्रुभुर्जातराज्येच्छस्तान्वनिर्धम्मटोभजत् ॥ १०१३ ॥
द्रोहापवादद्भागेष भवेद्राज्यमिदं पुनः ।
मामेव वेश्यापुत्रत्वाद नर्हेस्मिन्नुपैष्यति ॥ १०१४ ॥
इति संमत्र्य सुचिरं निहन्तुं पृथिवीभुजम् ।
प्रेरितो जयराजोभूत्तेनासरलचेतसा ॥ १०१५ ॥
३२१
युग्मम् ॥
विलावग्रामजान्क्षिप्त्वा तीक्ष्णान्द्रोहाय भूपतेः ।
सोवरोधवधूद्वित्रा विदधे मध्यपातिनीः ॥ १०१६ ॥
कमात्सिद्युन्मुखे तस्मिन्कार्ये राजपुरी नृपः ।
दूत्याय व्यसृजजातु बहुमानेन धम्मटम् ॥ १०१७ ॥
सहस्रमङ्गलगृहे सुदिनापेक्षया स्थिंतिम् ।
तं सिद्धिभङ्गचकितो जयराजः समाययौ ॥ १०१८ ॥
तमर्थ मण्डपे गूढं तयोर्मन्त्रीयमाणयोः ।
प्रयागानुचरः कश्चिद्भित्तिव्यवहितोशृणोत् ॥ १०१९ ॥
१ दुध्रुक्षुः इत्युचितम् । २ स्थितम् इत्युचितम् । ३ मन्त्रयमाणयोः इत्युचितम् । ४१