पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

अदर्शनात्सुबद्धापि कंदर्पप्रीतिराशयात् ।
राज्ञो जगाल कालेन सा मुष्टेरिव वालुका ॥ ९९९ ॥
उत्कर्षपुत्रावादाय चिकीर्षुर्लोहरेशताम् ।
कंदर्पो वर्तत इति क्षितिपं मत्रिणोवदन् ॥ १००० ॥
तथेति नृपतिर्गृह्णन्बन्दुं हन्तुमथाशु तम् ।
ससैन्यं व्यसृजत्पट्टं टक्कं चासिधराभिधम् ॥ १००१ ॥
तयोः संप्राप्तयोर्वार्ता तां लेख्यव्यत्ययाद्विदन् ।
विमुखश्चकितात्मा च कंदपभूद्यथा मुहुः ॥ १००२ ॥
केलिद्यूतक्षणे हस्तं मृद्गन्सेवकवत्पुरः ।
आसीदसिधरस्तस्य बन्दुमभ्युद्यतस्तदा ॥ १००३ ॥
ततः पाणि विनिष्कृत्य सोनुष्ठाग्रेण तत्करम् ।
अमृद्गाद्येन निस्त्वक्त्वं क्लिन्नः पक्षीव सोगमत् ॥१००४॥
अनन्तरज्ञो भूभृच्च तेनात्मा च नृपाश्रितः ।
विगर्ह्यते स्म खिन्नेन पट्टश्चैवमकथ्यत ॥ १००५ ॥
नेयाशयो नरपतिः कुटुम्बं प्रहिणोतु मे ।
अर्पयित्वा ततः कोट्टं प्रयास्यामि दिगन्तरम् ॥ १००६ ॥
आनीय दत्तांस्तैर्ज्ञातीनादाय द्रोहवर्जितः ।
स विमुक्ताधिकारोथ मन्त्री वाराणसीं ययौ ॥ १००७॥
हत्वा गयायां सामन्तमेकमन्यं निवेश्य च ।
काश्मीरकाणां चक्रे स श्राद्धशुल्कनिवारणम् ॥ १००८ ॥
स हत्वा चौरसेनान्यं ससैन्ये दुर्गमेध्वनि ।
पूर्वाशामध्वनीनां च व्यधान्निर्घृतकण्ठकम् ॥ १००९ ।।

१ यदा इत्युचितम् । २ विनिष्कृष्य इत्युचितम् । ३ कण्टकाम् इत्युचितम् । ३२०