पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

स्वीयैर्दृष्टैः क्षतैः कैश्चिंद्दृप्यन्त्यधिकमाहवे ।
पारकीयैस्त्रसन्त्यन्ये कोन्तरं वेत्ति देहिनाम् ॥ ९८८ ॥
आनीतोथ विनिर्गत्य तेनैव स भये ब्रुडन् ।
स्पर्धमानो यथाम्भोधौ मजन्हंसेन वायसः ॥ ९८९ ॥
रक्तप्रजं वीर्तसैन्यमभिन्नं बहुकोशवत् ।
परराष्ट्रं विशेदेवं स्ववीर्येणैव कोपरः ॥ ९९० ॥
प्रणतात्करमादाय ततो राजपुरीपतेः ।
मासमात्रेण कंदर्पः पुनः से भुवमाययौ ॥ ९९९ ॥
प्रत्युद्गमादिसत्कारैः कृतपूजो महीभुजा ।
३१९
स दण्डनायकादीनां शिरःशूलावहोभवत् ।। ९९२ ।।
परिहासपुरे पारिपाल्यं कुर्वन्कठोरधीः ।
वातगण्डाख्यया ख्याति निन्ये यस्तत्र पर्षदा ॥ ९९३ ॥
प्रभूतोत्कोचसंप्रीतसचिवप्रेरणस्पृशा ।
अपास्य वासनं राज्ञा पादाग्रादौ नियोजितः ॥ ९९४ ॥
आनन्दः स क्षणे तस्मिन्निच्छन्द्वाराधिकारिताम् ।
कंदर्पद्वेषिणामासीन्मत्रिणामभिसंमतः ॥ ९९५ ॥
तत्प्रेरितस्ततः पातुं लोहरं विताहितम् ।
मण्डलेश्वरतां दत्त्वा कंदर्प प्राहिणोन्नृपः ॥ ९९६ ॥
मन्त्रविक्रमसंपन्नः कुभृत्यैः स्वोदये सुभिः ।
युक्त्या तया राजपशोः समीपात्सोपवाहितः ॥ ९९७ ॥
दूत्यार्होयमिति प्रहाय निकटाद्देशान्तरं वाग्ग्मिनं
सूरिं बन्धुवियोगकृन्ननु वचोमुष्येति संत्यज्य च ।
शूरं राज्यमसौ हरेदिति तैया हित्वा विचारोज्झितो
धूर्तप्रेरणयाबुधो नृपपशुर्नायाति नाशं चिरात् ॥ ९९८ ॥

१ केचित् इति स्यात् । २ वीरसैन्यं इत्युचितम् | ३ स्त्रभुवं इत्युचितम् । ४ भ. यात् इति स्यात् ।