पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ राजतरङ्गिणी

मध्यान्हे स तु कंदर्पः स्वयं संप्राविशद्वली ।
राजधानी राजपुर्या विंशत्रिंशैः समं भटैः ॥ ९७७ ॥
द्विपां त्रिंशत्सहस्राणि योधानामनिवर्तिनाम् ।
रुरोध राजपुर्यग्रे तत्पदातिशतत्रयम् ॥ ९७८ ॥
काश्मीरकाणां निहतं रणे तत्र शतद्वयम् ।
चत्वारि तु शतान्युर्वी खशानामप्यशेरत ॥ ९७९ ॥
भग्ने रिपुवले दूरमसंख्येयैश्चिताग्निभिः ।
संस्कुर्वद्भिर्हतांन्राशीव्रणो मृत्योर्महानसः ॥ ९८० ॥
तेनैवं स्वाम्युपालम्भवेतालो रभसार्पितः ।
रणश्मशाने वीरेण शमितो मांसशोणितैः ॥ ९८१ ॥
याममात्रावशेषेह्नि पुनरेवाथ संहताः ।
द्विषः परिभवोत्तप्ताः कंदर्प योद्धुमाययुः ॥ ९८२ ॥
ततस्तानथ नाराचान्निचिक्षेप स संयुगे ।
लिप्तानौषधतैलेन विद्धा यैः प्राज्वलन्दिशः ॥ ९८३ ॥
आग्नेयं वेत्यसावस्त्रमिति मूढा विशङ्किताः ।
ते दूरं प्रययुर्भीता निन्दन्तः पुनरागमम् ॥ ९८४ ।।
प्रगल्भभावः प्रतिभानमोजः
प्रयोगचातुर्यमसंभ्रमश्च ।
महाशयानामतिसंकटेषु
धैर्योपनद्धां न धियं जहाति ॥ ९८५ ॥
राजधानीं प्रविष्टः स भानावस्ताभिलाषिणि ।
भूयोप्यपश्यत्संछन्नां बाह्याली बहुलैर्बलैः ॥ ९८६ ॥
योद्धुं यियासुः शुश्राव प्राप्तं तं दण्डनायकम् ।
घोरां रणाटवीं दृष्ट्वा भयात्स्थगितसैनिकम् ॥ ९८७ ॥

१ तानासीद्वणो इति स्यात् ।