पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

गीतमाकर्ण्यतेद्यापि तस्य वाग्गेयकारिणः ।
विपक्षैरपि पक्षमाग्रलुठद्वाष्पोदविन्दुभिः ॥ ९४२ ॥
स्वपतो दिनयामौ द्वौ सर्वकालं विलासिनः ।
दत्तस्थानस्य तस्यासीद्यामिनीषु प्रजागरः ॥ ९४३ ॥
तस्य दीपसहस्राङ्के स्थितस्यास्थानमण्डपे ।
विद्वद्गोष्ठीगीतनृत्तप्रस्तावेन क्षपा ययुः ॥ ९४४ ॥
कथान्ते शुश्रुवे तत्र पर्णचर्वणजः परम् ।
कान्ताधम्मिल्लशेफालीत्रुटिजन्मा
वितानैः सपयोदेव साग्निवप्रेव दीपकैः ।
रुक्मदण्डै: सशम्पेव सधूमेवासिमण्डलैः ॥ ९४६ ॥
साप्सरा इव कान्ताभिः सनक्षत्रेव मन्त्रिभिः ।
सर्षिसंघेव विबुधैः सगन्धर्वेव गायनैः ॥ ९४७ ॥
नित्यसंकेतवसतिर्धनदस्य यमस्य च ।
च मर्मरः ॥ ९४५ ॥
एकं विहरणारण्यं दानस्य च भयस्य च ॥ ९४८ ॥
क्षपास्थानस्थितिस्तस्य राज्ञः शक्राधिकश्रियः ।
कस्य वाचस्पतेर्वाचा वक्तुं कार्त्स्न्येन शक्यते ॥ ९४९ ॥
चक्कलकम् ॥
३१५
रौक्मैश्च राजतैश्चासीद्व्यवहारस्तदा घनः ।
मण्डले विरलोमुष्मिन्दीन्नारैस्ताम्रजैः पुनः ॥ ९५० ॥
दण्डनायकतां प्राप्य सुन्नः सर्वोन्नतिं भजन् ।
तस्मिन्काले त्वभूल्लोभान्नीचो मुष्टिंपचः परम् ॥ ९५१ ॥
निजा जयवने सूर्यामूलके विजयेश्वरे ।
आख्यान्ति यस्य लुब्धत्वं निर्व्ययस्थितयो मठाः ॥ ९५२ ॥
क्षुधितव्याधितानाथदीनाद्यार्तिनिवारणम् ।
सुस्पष्टं प्राप पट्टस्य राज्यलक्ष्मीः कृतार्थताम् ॥ ९५३ ।।

१ निवारणात् इत्युचितम् ।