पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१३
सप्तमस्तरङ्गः।

सप्तमस्तरङ्गः ।

द्वैराज्यशङ्कया कंचित्कालं संकुचितं ततः ।
भूयः प्रभयंतो लग्नं राज्यं हर्षमहीभुजः ॥ ९१९ ॥
राजशब्दस्तदा सेहे न कुत्राप्यधिरोहणम् ।
अत्युदग्रतया तस्मिल्लँघुत्वेनान्यराजसु ॥ ९२० ॥
स शोभादायिनीर्भकी: प्रावर्तयत मण्डले ।
निर्मत्सरो नरपतिः पुष्पर्तुरिव कानने ॥ ९२१ ॥
मुक्तकेशा निरुष्णीषा निष्कलाभरणाः पुरः ।
संत्यज्यैकं महीपालमभवन्निह देहिनः ॥ ९२२ ॥
धम्मिल्लग्रथनाद्यत्र मदनः कम्पनापतिः ।
जयानन्दोप्यमात्याग्र्यश्चित्रार्धोरुकधारणात् ॥ ९२३ ॥
अन्वभूत्पार्थिवक्रोधमविशेषेण मण्डले ।
तेन राज्योचितो वेषस्तत्र राज्ञा प्रवर्तितः ॥ ९२४ ॥
युग्मम् ||
स केषांचिदमात्यानामाकल्पोल्लासशोभिनाम् ।
निर्मत्सरः स्वदासीभिरारात्रिकमकारयत् ॥ ९२५ ॥
दाक्षिणात्याभवद्भङ्गिः प्रिया तस्य विलासिनः ।
कर्णाटानुगुणष्टङ्कस्ततस्तेन प्रवर्तितः ॥ ९२६ ॥
लडत्तालीदलाः स्थूलचन्दनस्थाससुन्दराः ।
रेजुर्जनास्तदास्थाने श्लाघ्यदीर्घासिधेनवः ॥ ९२७ ॥
स्वर्णकेतकपत्राङ्कजूटलम्बोर्जितस्रजः ।
चटुलातिलकाश्लिष्टविलोलतिलकाङ्कराः ॥ ९२८ ।।
अपाङ्गश्रोत्रयोर्बद्धसंधयोञ्जनरेखया ।
निर्नीरङ्गिककेशान्तबद्धहेमोपवीतकाः ॥९२९ ॥
अधराम्बरपुच्छान्तैर्लम्बैचुम्बितभूतलाः ।
प्रच्छादितार्धदोर्लेखक चुकाङ्कपयोधराः ॥ ९३० ॥
१ प्रभवतो इति स्यात् ।

४० ३१३१ प्रभवतो इति स्यात् |

   ४०