पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३११
सप्तमस्तरङ्गः ।

जाह्नवीयात्रया भ्रात्रोरानृशंस्या........।
धम्मटः सोपि तान्वङ्गैर्भ्रातृपुत्रैः सहाययौ ॥ ८९७ ॥
संमान्य तं नरपतिः स्वकृते हारिताग्रजम्‌ ।
सभ्रातृपुत्रमद्राक्षीत्स्वाविशेषेण सर्वदा ॥ ८९८ ॥
विभज्य भुञ्जतो राज्यं तस्यैवं प्रेरितः खलैः ।
क्रमाद्विजयमल्लोथ दुद्रुक्षुर्विक्रुतिं दधे ॥ ८९९ ॥
राज्यं प्रादाः किमन्यस्मै जित्वेत्युक्तः स दुर्जनैः ।
तल्लिप्सुर्मन्त्रयामास वधं प्रथमजन्मनः ॥ ९०० ॥
विजने मन्दिरे हन्यामिति संमन्त्र्य भूपतिः ।
यागं विधाय व्याजेन तेनागन्तुं निमन्त्रितः ॥ ९०१ ॥
मन्त्रे श्रुतिं गते राज्ञः सोथास्कन्दविशङ्कितः ।
आदिदेश स्वसैन्यानां द्रुतं संर्नहनोद्यतम्‌ ॥ ९०२ ॥
संनद्धे राजसैन्येथ द्रुतं निर्गत्य भूपतेः ।
हृता विजयमल्लेन मन्दुराभ्यस्तुरंगमाः ॥ ९०३ ॥
संहरंस्तुरगान्वीक्ष्य प्रहरन्नृपतेर्बलम् ।
कुर्वन्महाहवं वीरो निर्गन्तुं तत्वरे पुरात्‌ ॥ ९०४ ॥
आश्लिष्य पृष्ठं तिष्ठन्त्या जायया सहितो व्रजन् । स चकार तुरंगस्थः संग्राममतिमानुषम्‌ ॥ ९०५ ॥
धारासारैः क्षणे तस्मिन्नकालजलदोज्झितैः।
विपर्यस्तेव पृथिवी सर्वतः समलक्ष्यत ॥ ९०६ ॥
भांकारमारूतारब्धभूरिभेरीरवे रणे ।
आसारेण शरैश्चासीच्छाद्यमानो नृपात्मजः ॥ ९०७ ॥

१ दु्रु्ुः इत्युचितम्‌ । २ संनहनोयमम्‌ इ्युचितः पाठः ।