पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ राजतरङ्गिणी

विनास्मान्मत्रदो राज्ञः कोन्यः स्याद्यद्दिनैरसौ ।
मोक्ष्यत्यस्मांस्ततः प्राणान्नोपैक्षिष्टाविचारयन् ॥ ८६४ ॥
स्वयूथ्य एवेति वचः प्रशस्तकलशो वदन् ।
तदा संत्याजयामास स्वयं तच्च समर्पितम् ॥ ८६५ ॥
तिलकम् ॥
नोनसिह्लारभट्टारप्रशस्तकलशादयः ।
बवाथ हर्षदेवेन कारागारं प्रवेशिताः ॥ ८६६ ॥
इत्येवमेकेनैवाह्रा तादृग्राजविपर्ययः ।
कृतश्च हर्षदेवेन दैवेनेव महाद्भुतः ॥ ८६७ ॥
यथाकथंचिद्युत्क्रान्ता बहवः पृथिवीभृतः ।
प्रतीतिविषमो मार्गः कष्टमापतितोधुना ॥ ८६८ ॥
सर्वोत्साहोदकक्षेत्रं सर्वानुल्लासदूतिका ।
सर्वव्यवस्थाजननी सर्वनीतिव्यपोहकृत् ॥ ८६९ ॥
उद्भिक्तशासनस्फूर्तिरुद्रिक्ताशाक्षयक्षितिः ।
उद्भिक्तत्यागसंपत्तिरुद्रितहरणग्रहा ॥ ८७० ॥
कारुण्योत्सेकसुभगा हिंसोत्सेकभयंकरी ।
सत्कर्मोत्सेकललिता पापोत्सेककलङ्किता ॥ ८७१ ॥
स्पृहणीया च वर्ज्या च वन्द्या निन्द्या च सर्वतः ।
निश्श्रोद्या चोपहास्या च काम्या शोच्या च धीमताम् ८७२
आशास्या चापकीर्त्या च स्मार्या त्याज्या च मानसात् ।
हर्षराजाश्रया चर्चाकथा व्यावर्णयिष्यते ॥ ८७३ ॥
कुलकम् ॥
नूनं स तैजसैरेव ससृजे परमाणुभिः ।
कुतोन्यथाभूत्प्रसवे दुष्प्रेक्ष्यो महतामपि ॥ ८७४ ॥