पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः । ॥ ८५३ ॥

फणत्कारेण कर्तर्याच्युताया भुवि शङ्किता ।
अपश्यत्सहजा रक्तं त्र्योतजवनिकान्तरात्
सोथ लम्बशिरोनिर्यत्सान्द्रासृग्ददृशे तया ।
वज्रावभग्नशृङ्गान्तः त्र्योतद्धातुरिवाचलः ॥ ८५४ ॥
तस्यास्तदानी मौचित्यं निर्व्यूढं येन योषिताम् ।
भर्तृप्रसादपात्राणामद्याप्युच्चैस्तरां शिरः ॥ ८५५ ॥
व्रजति रजनी त्यक्त्वा क्वापि क्षये क्षणदाकरं
पदमुपगतस्यास्तं संध्या रवेरनुगच्छति ।
इति परिणतौ प्रेमण्युच्चावचे परिचिन्तिते
क्वचन नियमान्निन्द्या वन्द्या न वा सुधियां स्त्रियः ॥८५६ ॥
कुलाचारपतिप्रेमसादृश्येप्यभवत्तदा ।
३०७
कय्यासहजयोर्यस्मान्निन्द्या वन्द्या च पद्धतिः ॥ ८५७ ॥
युग्मम् ॥
सापि हि द्युसदो वेश्मनर्तकी नाट्यमण्डपे ।
दृष्ट्वा तेनावरुद्धात्वं निन्ये राजवधूः पुरा ॥ ८५८ ॥
कान्ता नगैरिकास्यन्दकृतसान्द्राङ्गरागया |
प्रेम्णो हेन इवौज्वल्यं प्रविश्याग्निं तयार्पितम् ॥ ८५९ ॥
हर्षदेवस्यापि पूर्व वेश्यात्वे साभवत्प्रिया ।
अतस्तेनार्थ्यमानापि मरणान्न न्यवर्तत ॥ ८६० ॥
चतुर्विंशाब्ददेशीयो दिनद्वाविंशतौ नृपः ।
मृतस्तिष्ठन्निशामेकां प्रातः सोक्रियताग्निसात् ॥ ८६१ ॥
तस्यावरोधलोलाक्ष्यो लोहराद्रिस्थिता अपि ।
कृशानुवर्त्मना काश्चित्पदवीं द्रुतमन्वयुः ॥ ८६२ ॥
शस्त्रं संत्याज्यमानेषु तन्मत्रिषु नृपानुगैः ।
मुमूर्षुर्नोनकः शस्त्रं न तत्याज क्षणं यदा ॥ ८६३ ॥