पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०० राजतरङ्गिणी

उत्पिञ्जे तत्र संजाते भग्नसैन्यस्य भूपतेः ।
संप्रेष्य ठक्कुरान्हर्षस्तटस्थं तद्वलं व्यधात् ॥ ७७९ ॥
इत्थं वद्धोपि तत्कृत्वा वैरिकार्यविरोधिनः ।
संदेहवेपमानाङ्गस्ततस्तानेवमब्रवीत् ॥ ७७६ ॥
वर्तेद्य संकटे दुष्टे तन्मां मुञ्चत बन्धनात् ।
न चेदाशु महीपालादनिष्टं नियमाद्भवेत् ॥ ७७७ ॥
इत्युच्यमानास्ते यावद्विमृशन्ति स्म तन्मुहुः ।
पादप्रहारा न्यपतंस्तावद्वारगृहाइहिः ॥ ७७८ ॥
उच्चचार स किं द्रोहः प्रक्रान्तोयं दुराशयैः ।
रे ठक्कुरा विवृणुत द्वारमित्युच्चकैर्वचः ॥ ७७९ ॥
ठक्कुरेण्वथ भीतेषु धैर्यादगणयन्भयम् ।
अकारयद्धर्षदेव एव द्वारमपावृतम् ॥ ७८० ॥
नेत्रमात्रस्थितप्राणो ददर्श विशतस्ततः ।
लोहराञ्शस्त्रिणो हन्तुं प्राप्तान्षोडश वारिकान् ॥ ७८१ ॥
ते हि च्छित्त्वोज्झिते हर्षशीर्षे सर्वमिदं क्षणात् ।
शाम्येदिह भयं मत्रं नोनकस्येति जल्पतः ॥ ७८२ ॥
उत्कर्षेणासकृच्छ्रुत्वा तं निहन्तुं विसर्जिताः ।
विमृश्य चोक्ता गच्छन्तः कार्यशेषं विमुञ्चता ॥ ७८३ ॥
कदाचित्तेन कृत्यं स्यादहतेनेति तत्क्षणम् ।
निवार्य ठक्कुरान्रक्ष्यो हन्तव्यश्च यदोर्मिकाम् ॥ ७८४ ॥
इमां दद्यामभिज्ञानं यदा चेयं विसृज्यते ।
तदा तु बन्धनात्त्याज्य इत्युदीर्याङ्गुलीयकम् ॥ ७८५ ॥
पाणौ दर्शयता चोक्ता विलम्वालम्बनं यतः ।
निवार्य ठक्कुरांस्तस्मिन्क्षिप्रं न प्राहरंस्ततः ॥ ७८६ ॥

कुलकम् ॥