सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

एवं मिलितचित्तस्तैर्विपत्तिं श्रुतवान्पितुः ।
कृतोपवासः सोन्येयुः शुश्रावोत्कर्षमागतम् ॥ ७४० ॥
बाष्पैः पित्रे प्रयच्छन्तं निवापसलिलाञ्जलीन् ।
तं दूतैरनुजो राजा स्नातुं प्रार्थयताथ सः ॥ ७४१ ॥
तस्य स्नानक्षणे राशि सजे राज्याभिषेचने ।
घोषोभिषेकतूर्याणामुदभूत्सजयध्वनिः ॥ ७४२ ॥
स तेन सुनिमित्तेन प्राप्तां मेने निमित्तवित् ।
विद्युद्द्योतेन जीमूतगर्जामिव नृपश्रियम् ॥ ७४३ ॥
ततः प्रभृत्युन्मुखता सुनिमित्तैरगृह्यत ।
तस्यात्यासन्नराज्यस्य भृत्यैरिव दिने दिने ॥ ७४४ ॥
स भोजनं कारयितुं दूतान्भ्रात्रा विसर्जितान् ।
देशान्निर्वासयतु मां राज्यात्संत्यज्य बन्धनात् ॥ ७४५ ॥
स्थातुमप्रत्यवस्थित्या विदध्यां कोशसंविदम् ।
म्रियेन्यथा निरशनैः संदिश्येति व्यसर्जयत् ॥ ७४६ ॥
स तन्मिथ्या प्रतिश्रुत्य तं दूतैः प्रहितैस्ततः ।
कृतकोशं सान्त्वयित्वा राजा भोज्यमभोजयत् ॥ ७४७ ॥
नित्यं च श्वो विधास्ये तंदर्थमान इति ब्रुवन् ।
कालापहारं कुर्वाणः शङ्कां तस्योदपादयत् ॥ ७४८ ॥
विश्वासाय स्वताडङ्कपाणि कृत्वा प्रयागकम् ।
पार्श्व विजयमल्लस्य सोथ गूढं व्यसर्जयत् ॥ ७४९ ॥
तदेवोक्त्वा तमूचे स त्वां ब्रूते दुःस्थितोग्रजः ।
कुमारे त्वयि राज्येस्मिञ्युश्यामो बन्धने वयम् ॥ ७५० ॥
संक्रान्तदुःखः संचिन्त्य चिरेणापि तमब्रवीत् ।
कार्य कुर्यात्कथमिदं मद्भिरा नीतिमान्नृपः ॥ ७५१ ॥

१ राज्ञ: इतिस्यात् । २ तदर्थ्यमान इत्युचितम् । ३ शुष्यामः इत्युचितम् । ३८ २९७