पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

प्राणावसानसमये परिसंकुचन्ती
स्वप्नप्रसङ्ग इव धावनशक्तिराज्ञा ।
प्राचुर्यदा खलु रुजो मरणोद्भवाया
मर्मव्यथां प्रथयते पृथिवीपतीनाम् ॥ ७१८ ॥
प्रजा ज्येष्ठं तनूजं च संविभक्तुं कृतार्थनः ।
उत्कर्ष ग्राहयशिक्षां बद्धजिह्वोभवत्ततः ॥ ७१९ ॥
अव्यक्तं वदतो हर्ष इति वाचं पुनः पुनः ।
निह्नोतुं नोनको भावं तस्यादर्शमढौकयत् ॥ ७२० ॥
स तन्निवार्य विहसन्दष्टौष्ठः कम्पयञ्शिरः ।
जपन्किमपि सार्धे द्वे वद्धवागभवद्दिने ॥ ७२१ ॥
आसन्नप्राणनिर्याण: संज्ञयाहूय मत्रिणः ।
ततः स्वं तैरसंमूढैर्मार्ताण्डाग्रमनाययत् ॥ ७२२ ॥
वर्षानेकान्नपञ्चाशद्भुक्तवान्स सितेहनि ।
मार्गस्य पञ्चषष्ठेदे षष्ठयां निष्ठामथासदत् ॥ ७२३ ॥
सप्त मम्मनिकामुख्या देव्यः परिणयाहृताः ।
अवरुद्धापि जयमत्यभिधाना तमन्वगुः ॥ ७२४ ॥
प्रसादवित्तया तस्य पुनः कय्याभिधानया ।
अवरुद्धिकया कृत्स्ना स्त्रीजातिरपवित्रिता ॥ ७२५ ॥
सर्वावरोधप्राधान्यप्रदानं नास्मरद्यदि |
मा स्माषनाम भर्तुस्तदनुच्चाभिजनोद्भवा ॥ ७२६ ॥
संश्रित्य विजयक्षेत्रं क्रमाङ्ग्रामनियोगिनः ।
भेजे यत्त्ववरुद्धात्वमतो दुःखाकरोति नः ॥ ७२७ ॥
भूपालभोग्यं स्ववपुः सा भोगाभ्यासभासुरम् ।
निनाय ग्राम्यभोग्यत्वं धिङ्कारीनींचचेतसः ॥ ७२८ ॥

२९५