पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ राजतरङ्गिणी

नृपः स शीलवैकल्ये पशुतुल्ये ह्रियं त्यजन् ।
रिपोरिव तनूजस्य चकमे कतिचित्प्रियाः ॥ ६८४ ॥
तासु श्वशुरवाल्लभ्यमवाप्य सुगलाभिधा ।
बभूव तुक्कभूभर्तृन॑त॒भर्तृपदार्थिनी ॥ ६८५ ॥
संमत्र्य नोनकः सा च द्वौ सूदावशनान्तरे ।
रसं प्रदातुं हर्षस्य पापं भैरयतां ततः ॥ ६८६ ॥
अन्यसूदमुखाद्वार्ता प्रयागस्तामवाप्तवान् ।
प्रभुं तद्दाप्यमानान्नपरिहारमकारयत् ॥ ६८७ ॥
तेनान्नेन परीक्षार्थ दापितेनापजीवितौ ।
हर्ष: श्वानौ निशम्याभून्निराशो निजजीविते ॥ ६८८ ॥
प्रयुक्ति गूढदण्डस्य पितुरेव स तां विदन् ।
ततः सर्वाणि भोज्यानि स्पृष्यै॒वौज्झीद्दिने दिने ॥ ६८९ ॥
प्रयागोपहृतेनासीत्परं बाह्येन सर्वदा ।
ओज्येन येन केनापि कुर्वञ्जीवितधारणम् ॥ ६९० ॥
अन्नस्याभोजनं श्रुत्वा राजा सूदैनिवेदितम् ।
ततः प्रयागमानीय तत्र पप्रच्छ कारणम् ॥ ६९१ ॥
प्रयोजकौ च सूदौ च सोपलभ्य न्यवेदयत् ।
रसार्पणकथां कृत्स्नां तज्ज्ञानं च स्वयं प्रभोः ॥ ६९२ ॥
अथान्येष्वपि सूदेषु पित्रा दत्तेषु शङ्कितः ।
राजसूनुर्न बुभुजे प्रयागोपहृतं विना ॥ ६९३ ॥
स सर्वेषु विरुद्धेषु यद्यत्तत्रात्यवाहयत् ।
मेने तत्तद्दिनं लब्धं शेषेष्वास्थापराङ्मुखः ॥ ६९४ ॥
अत्रान्तरे समुद्भूदकस्मान्नाशसूचकः ।
अदृष्टपूर्वी भूभर्तुः सदाचारविपर्ययः ॥ ६९५ ॥

१ नप्वी भर्तृवधार्थिनी इति पाठः स्यात् । २ पापी इत्युचितः पाठः ।