पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

शश्वत्स गोचरीभूतस्तेषां स्नेहलवस्पृशाम् ।
न घातितः सूनुना च वर्जिता न च तत्कथा ॥ ६२८ ।।
आप्तत्वं तीक्ष्णवर्गेथ प्रतिभेदभागते ।
तां विश्शावट्ट एवाशु वार्ता राज्ञे न्यवेदयत् ॥ ६२९ ॥
बुद्धवान्राजपुत्रस्तत्तस्मिन्नहनि जातभीः ।
भोक्तुं नागात्पितुः पार्श्वमपि दूतैः कृतार्थनः ॥ ६३० ॥
सोपि तस्मिन्ननायाते तत्रार्थे शान्तसंशयः ।
२८७
दिने तत्र मनस्तापान्नाभुङ्ग सपरिच्छदः ॥ ६३१ ॥
सभ्रातृकस्य प्राप्तस्य प्रातर्दुःखं न्यवेदयत् ।
सुचिरं थक्कनस्याङ्केशिरो विन्यस्य सोरुदत् ॥ ६३२ ॥
उक्त्वा च धम्मटोदन्तं बुद्ध्या तस्य समर्पणम् ।
विधेहीत्यभ्यान्नापि तं अङ्गीभणितिक्रमैः ॥ ६३३ ॥
न कृताधिगमावावां कृत्यस्यास्येत्युदीर्य ताम् ।
अभाषेतां भ्रातुरर्थे पुनस्तन्वङ्गनन्दनौ ॥ ६३४ ॥
त्वत्प्रसादबलाद्राजन्नापन्नत्राणदीक्षितौ ।
यावावां तत्प्रवेशार्थं व्यक्तद्वारं निशास्वपि ॥ ६३५ ॥
कथं नु पृथिवीपाल प्राप्ते प्राणात्ययक्षणे ।
निर्दोषो वा सदोषो वा ताभ्यां संत्यज्यतेनुजः ॥ ६३६ ॥
युगलकम् ॥
स्वामिद्रोहापवादश्च भवेत्तद्रक्षणाद्ध्रुवम् ।
देशत्यागं तदुत्सृज्य शरणं नान्यदावयोः ॥ ६३७ ॥

१ निवेदयन् इत्युचितः पाठः | २ बद्धा इत्युचितः पाठः । ३ चापि इत्युचितः पाठः । ४ तम् इत्युचितः पाठः ।