पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ राजतरङ्गिणी

पितुरेव तदा भृत्यो विश्शावट्टाभिधो विटः ।
शाधि राज्यं निहत्येमं नर्मणेवेत्युवाच तम् ।। ६१७ ।।
अधिक्षिपन्स तं रोषान्नानेनोक्तमसांप्रतम् ।
इत्यासन्नेन हसता धम्मटेनाप्यकथ्यत ॥ ६१८ ॥
अग्रे भोगेच्छवश्छन्ना: कुमाराननुगान्पितुः ।
स्नेहं प्रदर्श्य स्वीकुर्युर्वेश्याः कमिसखीरिव ॥ ६१९ ॥
पुनः सभां संप्रविष्टस्तं पिता पर्यतोषयत् ।
प्रीतिदायैस्ततस्तैस्तैः साधुवादैश्च मोनिनाम् ॥ ६२० ॥
अन्येस्तु पितुः पार्थ्यात्स भुक्त्वा स्वगृहान्गतः ।
अभ्येय विश्शावट्टेन तदेव जगदे रहः ॥ ६२१ ॥
उपपन्नं तत्तदुक्त्वा तेनाभीक्ष्णं निषेधता ।
निर्बघ्नन्नपि हस्तेन सोथ कोपादताड्यत || ६२२ ॥
लग्नाभिघातं रुधिरं वमन्तं घ्राणवर्त्मना ।
तं वीक्ष्य सोभिजातोभूत्सदाक्षिण्यो नृपात्मजः ॥ ६२३ ॥
भृत्यैः प्रक्षालयन्नस्रं तस्येदृक्पाप्मनो भवेत् ।
उक्तेनापीति कथयन्स्मित्वा वासांस्यदापयत् ॥ ६२४ ॥
अनिच्छोरपि तस्येच्छा दानात्तेनान्वमीयत ।
दुःशीलेनान्यकामिन्याः स्मितमात्रादिव स्पृहा ॥ ६२५ ॥
असकृत्कृतयत्नः स ततः कालेन भूयसा ।
तं प्रैरयत्तत्र कृत्ये मध्ये स्वीकृत्य धम्मटम् ॥ ६२६ ॥
स रोहद्रोहसंकल्पजन्मना पाप्मना श्रितः ।
संमत्र्य पितरं हन्तुं तीक्ष्णान्प्रायुङ्क सर्वतः ॥ ६२७ ॥

१ कामिसखीनिव इत्युचितः पाठः | २ मानिनम् इत्युचितः पाठः |