पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ राजतरङ्गिणी

इत्यादि संभाव्य तयोः पादन्यस्तोत्तमाङ्गयोः ।
रुदित्वा गमनानुज्ञां कथंचित्पार्थिवो ददौ ॥ ६३८ ॥
पथि कश्चिदमुं हन्यान्मध्येकृत्येति धम्मटम् ।
तौ विनिर्जग्मतुर्देशात्ततः सबलवाहनौ ॥ ६३९ ॥
तन्वङ्गजेषु यातेषु विविक्तीकृतमन्दिरः ।
सुतमानीय नृपतिः सान्त्वयन्निदमब्रवीत् ॥ ६४० ॥
आसंसारं जगत्यस्मिन्सर्वतः ख्यातकीर्तिना ।
जनकेनैव जन्यस्य ज्ञप्तिरुत्पाद्यते जनैः ॥ ६४१ ॥
पुत्र शीतांशुनेवात्रिं दिग्द्वीपख्यातकीर्तिना ।
भवता तु सुपुत्रेण मां जानात्यखिलो जनः ॥ ६४२ ॥
स त्वं गुणवतामग्र्यो निरर्गलयशा भवन् ।
असाधुसेव्यमध्वानं वद कस्मान्निपेवसे ॥ ६४३ ॥
पैतामहं निजं चार्थे यन्न तुभ्यं समार्पयम् ।
तत्र हेतुमनाकर्ण्य नासूयां कर्तुमर्हसि ॥ ६४४ ।।
रिक्तः स्वेभ्यः परेभ्यश्च प्राप्नोत्यभिभवं नृपः ।
इति निर्ध्याय हि मया क्रियते कोशरक्षणम् ॥ ६४५ ॥
पुरप्रतिष्ठां निष्पाद्य क्षिप्त्वा राज्यधुरं त्वयि ।
वाराणस्यां गमिष्यामि नन्दिक्षेत्रेथवा पुनः ॥ ६४६ ॥
तद्राज्यकोशयोः स्वामी बुभूषुर्न चिराद्भवान् ।
अतितात्पर्यतः कस्मादनार्योंचितमीहसे ॥ ६४७ ॥
संभाव्यते त्वयि न तद्यन्ममावेदितं खलैः ।
यथार्थकथनात्तस्मात्कौलीनं विनिवार्यताम् ॥ ६४८ ॥
विशुद्धये करोत्वेष स्वकृतस्याप्रतिश्रवम् ।
स्नेहादितीच्छंस्तद्वाजा साभिप्रायं वचोभ्यधात् ॥ ६४९ ॥