पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङगिणी


पार्थिवेष्वथ यातेषु मल्ले कार्यपराङ्मुखे !
क्षितिपालेन कंदर्पो द्वारं स्वीकारितः पुनः ॥ ५९५ ॥
अभिमानधनो मन्त्री कृतारब्धिर्निजैर्धनैः ।
दुंर्ग स स्वापिकं नाम युक्तया दुर्ग्रहमग्रहीत् ॥ ५९६ ॥
स प्रविष्टोपि नगरं खिन्नः केनापि हेतुना ।
पार्थिवाभ्यर्थ्यमानोपि कांर्य नैवाग्रहीद्यदा ॥ ५९७ ॥
तदा प्रशस्तकलशं नित्यं दूत्यं समाचरन् ।
तदुत्सिक्तोक्तिसंतप्तः संस्पृशन्नभिमानिताम्‌ ॥ ५९८ ॥
निजश्रियातिभूयस्या भूरीन्संगृह्य शस्त्रिणः ।
तत्पदे रत्नकलशं स्वभ्रातरमकारयत्‌ ॥ ५९९ ॥
सोर्थैः क्रितप्रथोप्यासीन्न कंदर्पसमः क्वचित्‌ ।
कि चित्रोल्लिखितः सिंहः सत्यसिंहक्रियां स्पृशेत्‌ ॥ ६००॥
ततः क्रमेण भूभर्त्रा भृत्यरत्नं कथंचन ।
राजस्थानाधिकारं स नगरे ग्राहितः पुनः ॥ ६०१ ॥
अतिताडनतश्चौरे विपन्नेथ कृपाकुलः ।
त्यक्त्वा तमप्यधीकारं विपण्णो जाह्नवीमगात्॥ ६०२ ॥ |
पटान्तकृतसंरोधस्ताडयित्वा करं प्रभोः ।
कोपाद्देशान्तरं यातस्तं प्रत्यास्ते स्म मन्युमान्‌ ॥ ६०३ ॥
अत्यन्तस्त्रेदितोप्यासीदानीतस्यान्तिकं पुनः ।
दर्पं हर्तुं नृपस्तस्य संनद्धो न तु जीवितम्‌ ॥ ६०४ ॥
इत्थं पुरुषसिंहानां प्रौढदार्ढ्यो विसोढवान्‌ ।
आरोदमवरोहं च सोन्तरज्ञः क्षमापतिः ॥ ६०५ ॥

१ प्रशस्नकलशः इत्युचितः पाठः |