पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सप्त्मस्तरङग्:=२८१


विज्जादयस्तु निर्द्रोहा यं यं देशमशिश्रयन्‌ ।
त्तत्र तत्रैव पूज्यत्वं रत्नानीव प्रपेदिरे ॥ ५६० ॥
विज्जोधिकं प्रवृद्धोपि दैवतस्येव भक्तिमान्‌ ।
पभ्द्यां कलशदेवस्य सत्यंकार: सदाभवत्‌ ॥ ५६१ ॥
एवं निर्वास्य विज्जादीनचिरावाप्तवैभव: ।
क्षिप्रं सूर्यमतीशापाज्ज्यानन्दः क्षयं ययौ ॥ ५६२ ॥
राज्ञो विरोधकृद्वक्तुं शापस्याव्यभिचारिताम्‌ ।
प्रमयं जिन्दुराजोपि तस्मिन्नेव क्षणे ययौ ॥ ५६३ ॥
तेपि विज्जादय: क्षिप्रमचिरावाप्तसंपदः ।
प्रापुः शापोचितं सर्वे प्रमयं गौडमण्डमले ॥ ५६४ ॥
आकस्मिकेथ प्रमये विज्ज: प्रमयमाययौ ।
सुदीर्घवन्धनक्लेशं प्रापुस्तदनुजा अपि ॥ ५६५ ॥
पलायितेषु कारायास्तेषु व्याघ्रेण पाजकः ।
हतस्तदनुजाः शेपा भुक्तङ्केशाः क्षयं ययुः ॥ ५६६ ॥
द्दित्रास्तव्द्दैधकाराणां नानश्यन्मदनादयः ।
अदीर्घेणैव कालेन दुरन्तैर्यैर्भविप्यते ॥ ५६७ ॥
जयानन्दसहायोथ तत्पुत्रान्परिपालयन् ।
सर्वाधिकारे भूपेन वामनाख्यो व्यधीयत ॥ ५६८ ॥
यस्य तास्ता व्यवहृतीर्नीतिज्ञस्याभ्दुतावहाः ।
वर्णयन्ति वयोवृद्धा गोष्टीष्वद्यापि धीमताम्‌ ॥ ५६९ ॥
ग्रामानवन्तिस्वाम्यादिभोग्यानाहृत्य लुब्धधीः ।
राजा कलशगञ्जाख्यं कर्मस्थानं विनिर्ममे ॥ ५७० ॥
मन्त्रिणे नोनकायासौ ध्रनोत्पादविदेप्यदात्‌ ।
कौर्यत्रस्तो न पादाग्रं जनरक्षणदक्षिणः<poem>

॥ ५७१ ॥

३६ ।। </poem>