पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ राजतरङ्गिणी

एवं शवलकृत्येन पुरं तेन नवीकृतम् ।
निर्दग्धे विजयक्षेत्रे शिलावेईमान शूलिनः ॥ ५२४ ॥
विजयेशशिलावेश्ममौलावातपवारणम् ।
नृपोम्बरशिरश्रुम्बि जाम्बूनदमयं व्यधात् ॥ ५२५ ॥
व्यवस्थितिं चानपायां व्यधत्त त्रिपुरेश्वरे |
पिनाकिनश्च प्रासादं स स्वर्णामलसारकम् ॥ ५२६ ॥
ततः सत्कर्मकुशलश्चकार कलशेश्वरम् ।
निःसंख्यहाटकघटीपटलाङ्कशिलागृहम् ॥ ५२७ ॥
कलशेशोपरिच्छत्रं चिकीर्पोः काञ्चनाञ्चितम् ।
तुरुष्कदेशजः शिल्पी राशोभ्यर्णमुपाययौ ॥ ५२८ ॥
सहस्रैर्भूरिभिर्हेम्नश्छन्त्रसिद्धिं वदन्कलाम् ।
स च्छादयन्निजां ताम्रे काञ्चनारोपणं विदन् ॥ ५२९
कानिचिद्दिवसान्यासीत्प्राप्नुवन्नृपसत्क्रियाम् ।
ततोतितीक्ष्णप्रज्ञेन नोनकाख्येन मन्त्रिणा ॥ ५३० ॥
अभ्यूह्य शिक्षितकलो विलक्षोगाद्यथागतम् ।
तच्च च्छन्त्रं ययौ सिद्धिमत्यल्पैरेव काञ्चनैः ॥ ५३१ ।।
अनन्तेशाभिधं वाणलिङ्गमन्याश्च भूपतिः ।
प्रतिष्ठा विविधाश्च स शक्राधिकवैभवः ॥ ५३२ ॥
नृपे सहजपालाख्ये शान्ति यातेभ्यषिच्यत ।
ततः संग्रामपालाख्यो राजपुर्या तदात्मजः ॥ ५३३ ॥
राज्यं जिहीर्षुर्वालस्य पितृव्यस्तस्य भूपतेः ।
भेजे मदनपालाख्यो बलीयानुद्यमं मदात् ॥ ५३४ ॥
तद्भयाच्छरणं प्रायान्नृपं साहायकार्थिनी ।
स्वसा संग्रामपालस्य जस्सराजश्च ठक्कुरः ॥ ५३५ ॥

१ वेश्म च इत्युचितः पाठः ।