पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७७ सप्तमस्तरङ्गः ।

कौलीनचकितो राजा कुर्वन्कण्टकशोधनम् ।
प्रकटं नात्यजद्दण्डं चौरेभ्योपि स जातुचित् ॥ ५१३ ॥
न तस्यार्थः कोपि नष्टो मन्त्रिणो यमयोजयन् ।
मत्रिणां स पुनश्चक्रे नष्टस्यार्थस्य योजनम् ॥ ५१४ ॥
विवाहयशयात्रादिमहोत्सवशताकुलः ।
नित्यप्रहृष्टो निर्देन्यस्तद्राज्ये दहशे जनैः ॥ ५१५ ॥
तेन नीतिविदाक्रान्ताः क्षमाभुजः क्षित्यनन्तराः ।
आहाराचरणेप्यासंस्तद्ध्यक्षान्विनाक्षमाः ॥ ५१६ ॥
तन्वङ्गस्थस्थक्कनादींस्त्रीनायातान्दिगन्तरात्
व्ययितैकानुजान्मल्लप्रमुखान्गुङ्गजानपि ॥ ५१७ ॥
अप्रीणयद्वन्धुभृत्यान्स भव्याभिर्विभूतिभिः |
कलाभिरमृतार्द्राभिः सोमः सुरपितॄनिव ॥ ५१८ ॥

युग्मम् ॥
अवाप्तपरिपाकोपि दौःशील्येन न भूपतिः ।
कुदैशिकोपदिष्टेन दुष्टाचारेण चोज्झितः ॥ ५१९ ॥
टक्केन बुल्लियाख्येन कन्यकाः समुपाहृताः ।
क्रीतास्तस्य तुरुष्केभ्यो नानादिग्देशसंभवाः ॥ ५२० ॥
स ताभिः परदारैश्च रूपलोभादुपाहृतैः ।
अवरोधपुरंध्रीणां द्वासप्ततिमढौकयत् ॥ ५२१ ॥
बह्वीः कामयमानस्य योषितः प्रतिवासरम् ।
मत्स्ययूषादिभिर्वृष्यैर्नास्य पुष्टिरहीयत । ५२२ ॥
महासमयपूजास्वव्यग्रः स गुरुभिः समम् ।
महाचरूणामाहारं नीतिमुत्सृज्य चाकरोत् ॥ ५२३ ॥

. १ जनः इत्युचितः पाठः ।