सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

तदा जातु रहः कुप्यंस्तन्वङ्गे थक्कने स्थिते ।
उवाचानुक्तपूर्व तामेवं स परुषं वचः ॥ ४२२ ॥
तिलकम् ॥
२६९
अभिमानो यशः शौर्य राज्यमोजो मतिर्धनम् ।
मया जायाविधेयेन हन्त किं किं न हारितम् ॥ ४२३ ॥
मिथ्योपकरणं नारीर्गणयन्ति नृणां जनाः ।
परिणामे तु नारीणां क्रीडोपकरणं नराः ॥ ४२४ ॥
द्वेषोन्मेषात्प्रसक्ताभिर्विरक्ताभिरसूयया ।
के नाम नात्र कान्ताभिः कृतान्तस्यातिथीकृताः ॥ ४२५ ॥
रूपं काश्चिद्वलं काश्चित्प्रज्ञां काश्चिञ्च कार्मणैः ।
पुंस्त्वं काश्चिदसून्काश्चिद्भर्तॄणां जद्दुरङ्गनाः ॥ ४२६ ॥
हरन्ति ग्रावभिरिव क्ष्मां पुत्रैरन्यगोत्रजैः ।
मत्ताः पयोधरौन्नत्यात्तरङ्गिण्य इवाङ्गनाः ॥ ४२७ ॥
पर्यन्ते वेतनमिमे किं जीर्णैरीदृशैरिति ।
पोपयन्ति सुतान्भर्तृञ्शोषयन्ति तु योषितः ॥ ४२८ ॥
सर्वकालं विदित्वापि दोषान्योषित्कृतानमून् ।
प्रतिपत्त्यनुरोधेन मयेयं नावधीरिता ॥ ४२९ ॥
प्रभविष्णुर्निहत्येयमैहिकीः सुखसंपदः ।
परलोकसुखस्याशामपि हन्तुं ममोद्यता ॥ ४३० ॥
वलीपलितयुक्तस्य नेदीयोमरणावधेः ।
विहाय विजयक्षेत्रं कुत्र गन्तुं ममोचितम् ॥ ४३१ ॥
क्षपाकरकलामौलेः किल्विषक्षपणक्षमा ।
द्वारोपकण्ठसंसेवोत्कण्ठा कुण्ठीभवेस्कथम् ॥ ४३२ ॥
पुत्रो लोकद्वयत्राता कस्यान्यस्येदृशो भवेत् ।
तीर्थात्प्रस्थापयन्मां यत्कुपथे मृतमिच्छति ॥ ४३३ ॥