पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ 1 राजतरङ्गिणी

चकार पितृपक्षाणां पुत्रो वेश्मादिनाशनम् |
पिता तु पुत्रपक्षाणां न किंचित्स्त्रीवशीकृतः ॥ ३८७ ॥
पुत्रस्नेहान्धया पत्न्या वाधितैश्चानुयायिभिः |
रूक्षोक्तिभिस्ताप्यमानस्तस्थौ दुःस्थः सदा नृपः ॥ ३८८ ॥
राज्यं जिहीर्षुः पुत्रस्य निःशूरं तद्वलं विदन् ।
षत्स जिन्दुराजस्य गणनां पौरुपेकरोत् ॥ ३८९ ॥
पुत्राजिहीर्षुणा राज्यं तेन तन्वङ्गनन्दनाः |
प्रार्थ्यन्ते स्म तदा राज्यकृतये तत्पराङ्मुखाः ॥ ३९० ॥
संप्रेर्य तं तदा रात्रौ स्वान्चयाशर्मशङ्किनी ।
हर्षे देवी नृपं कर्तुं दूतैराहृतवत्यभूत् ॥ ३९१ ॥
स पितामहयोर्दूतैराहृतः साहसोन्मुखः ।
बाह्याल्यां निर्गतः सजै रक्ष्यमाणोपि रक्षिभिः ॥ ३९२ ॥
दत्तपाणिकषाघातः क्षणार्धेनोदलङ्घयत् ।
मनोजवेनाभग्नौजा वाजिना पञ्चयोजनीम् ॥ ३९३ ॥
वाजिनं विजिताभ्यासमनुगन्तुं समुद्यताः ।
अगच्छन्बहवो मार्गे दीनाः सेनायाः श्रमम् ॥ ३९४ ॥
प्राप्तस्य पादयोस्तस्य पतितस्य पितामहौ ।
आनन्दाश्रुजलस्यन्दैरभिषेकं प्रचक्रतुः ॥ ३९५ ॥
पुत्रे तन्निकटं प्राप्ते कलश: कम्पिताशयः ।
अप्रियाचरणात्पित्रोः संघित्सुः स न्यवर्तत ॥ ३९६ ॥
स तस्य नगरात्पन्त्रीः पार्श्व प्राज्ञो व्यसर्जयत् ।
अकरोद्विप्ठते राष्ट्रे स्वभेदस्याप्रकाशनम् ॥ ३९७ ॥
एवं प्रवर्तमानेपि वैरे कलशभूपतिः ।
कंचित्कालं मते मातुरवर्तिष्ट मनागिव ॥ ३९८ ॥