पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

यस्य भ्रूभङ्गमात्रेण दरद्वाजादयो हताः ।
तत्प्रकोपानले कस्मादीहसे शलभायितुम् ॥ ३७५ ॥
अस्तु वीतिमारूढे वीतिहोत्रसमे नृपे ।
कस्त्राता स्यात्त्वदीयानां तृणानामिव शस्त्रिणाम् ॥ ३७६ ॥
सेनाङ्गैः कतमैः केन शौर्येण कतमैर्धनैः ।
भवाञ्शक्तिमतां धुर्य योद्धुमेनं प्रधावति ॥ ३७७ ॥
दैवात्संत्यक्तमेतेन राज्यमखण्डितम् ।
२६५
पित्रा तीर्थोपविष्टेन किमिवापकृतं तव ॥ ३७८ ॥
द्वैधेच्छुभिः पात्यमानो व्यसनेमिन्सुदारुणे |
प्रयास्यसि दिनैरेव रिक्तोप्यत्यन्तरिक्तताम् ॥ ३७९ ॥
नय सेनाः पितुर्भीतिर्जीवन्त्यां मयि नास्ति ते ।
ऋजुमेनं नयस्वार्द्रे प्रत्युतानुनयोक्तिभिः ॥ ३८० ॥
इति दूतमुखैर्गुढं पुत्रो मात्रा कृतार्थनः ।
सर्वाशाभ्योनयत्सैन्यं रात्र वेव निजान्तिकम् ॥ ३८१ ॥
श्रुतापसारं सैन्यानां दूतैश्चैत्यप्रसादितम् ।
उपालेभे पतिं प्रातर्दृष्टा प्रत्युत वल्लभा ॥ ३८२ ॥
राझ्या मिथस्तयोरेवं शमिताक्षेपयोरपि ।
पिशुनप्रेरणात्प्राप कालुष्यं धीः क्षणे क्षणे ॥ ३८३ ॥
वैरस्य रूपमेतद्धि भेदं याति मुहुर्मुहुः ।
संधीयमानमपि यत्कृिन्नाम्बरभिवाशयम् ॥ ३८४ ॥
बाह्याल्यादौ सुतोदन्तं श्रुत्वा तप्ताशयो नृपः ।
गृहं प्रविष्टो धृष्टस्त्रीभाषितैर्जडतां ययौ ॥ ३८५ ॥
एवं प्रतिदिनं तप्तस्त्यक्ततापः प्रतिक्षपम् ।
स्वच्छाशयः शरत्तुच्छतडाकौपम्यमाययौ ॥ ३८६ ॥

३४