पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राजतरङगिणी २६२


न च ते दुर्मतौ त्यक्ताः प्रजा एता मयेत्यपि ।
ध्वात्वा सूनोः समुचिता कर्तुं दुष्टस्य वाच्यता ॥ ३३९ ॥
न यस्त्रपुत्रकस्येव शत्कि: कापि हि भूभुजः ।
भवेत्साधुरसाधुर्वा स प्रजानां शुभाशुभै: २४० ॥
उज्झन्ति यत्पयोवाहा जलानि तडितोथवा ।
वनस्पतीनां सद सत्कर्मपाकस्य तत्फलम्‌ ॥ ३४१ ॥
यच्चापथस्थितं पुत्रं त्यक्त्वेच्छस्यासितुं सुखम्‌ ।
कोशं त्यक्त्वा प्रस्थितस्य घटते तत्कथं तव ॥ ३४२ ॥
धाराधिरूढसामर्थ्य सद्वंश: शुचिमानपि ।
संस्पृश्यते क्षीणकोशः कृपाण इव कैः पुमान्‌ ॥ २४३ ॥
श्रुत्वेत्यैच्छन्नृपो यावतप्रत्यावृत्तिं विचारवान्‌ ।
तावत्स पुत्रेणाभ्येत्य सभार्येण प्रसादितः ॥ ३४४ ॥
अथ प्रविश्य नगरं स प्रमादापवर्जिताम्‌ ।
अशान्तमन्युरादाय लक्ष्मीं भूयो विनिर्ययौ ॥ ३४५ ॥
हयायुधतनुत्रादि स्वयं स्वीकृत्य निर्गत: ।
देवीं प्रतीक्षमाणोस्थात्सरित्पारे ततः क्षणम्‌ ॥ ३४६ ॥
नानाप्रकारानारोप्य कोशान्नौषु नृपाङ्गना:|
नायःशङ्कूनपि गृहे निर्यान्त्यः पर्यशेषयन्‌ ॥ ३४७ ॥
अज्ञातवार्त: प्राक्तूष्णीं तत्प्रस्थानेभवज्जन: |
ज्ञातवार्तस्तदा त्वासीदाक्रन्दमुखरानन: ॥ ३४८ ॥
प्रतिमोत्कुं पुरे ताभ्यां दत्तपुष्पाञ्जलौ जनः ।
वाष्पबिन्दुमिषादौज्झीद्दीर्घानर्घकणानिव ॥ ३४९ ॥
हा मातर्हा पितः क्वेत्थं गच्छतः परिदेवितात्‌ ।
इत्यस्मा<poem>

दपरः शब्दो मार्गेषु न तदा श्रुतः ॥ ३५० ॥

</poem>