पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० राजतरङ्गिणी

प्रागुन्मीलति दुर्यशः सुविषमं गर्हाभिलाषस्ततो
धर्मः पूर्वमुपैति संक्षयमथो श्लाघ्योभिमानक्रमः ।
संदेहं प्रथमं प्रयात्यभिजनं पश्चात्पुनर्जीवितं
किं नाभ्येति विपर्ययं विगलने शीलस्य चिन्तामणेः ॥ ३१६॥
राजधानीमवातस्य दुःशीलस्य महीपतेः ।
क्षपायामेव तां वार्ता पितरावधिजग्मतुः ॥ ३१७ ।।
तौ रुदित्वा सुतस्नेहलज्जाशोकान्वितौ चिरम् ।
निश्चयं बन्धने तस्य सदोषस्य प्रचऋतुः ॥ ३१८ ॥
सर्वविद्यानिधि ज्येष्ठं नप्तॄणां वप्पिकात्मजम् ।
हर्षे राज्ये चिकीर्षु च निन्यतुस्तां निशीथिनीम् ॥ ३१९ ॥
आकारितस्ततस्ताभ्यां प्रातः कलशभूपतिः ।
ऊचे विजजयानन्दौ साशङ्को जनकाद्भयम् ॥ ३२० ॥
तन्मतेन जयानन्ददत्तहस्तः कथंचन ।
अन्वीयमानो विज्जेन स पित्रोः प्राविशद्गृहम् ॥ ३२१ ॥
पिता प्रविष्टमात्रं तं वक्रे दत्तचपेटकः ।
अभाग्यभागिञ्जहिहि क्षुरिकामित्यथाब्रवीत् ॥ ३२२ ॥
एनं त्रासविसूत्राङ्गसंधिमालम्ब्य पाणिना ।
सावष्टम्भं स्पृशञ्शस्त्रं विज्जो राजानमब्रवीत् ॥ ३२३ ॥
राजन्मानवतां धुर्यो भवन्नपि भवान्कथम् ।
नात्याज्यं मानिनां वेत्ति मानग्रहमहाव्रतम् ॥ ३२४ ॥
गृहीतवेतनेनायं राजपुत्रेण शस्त्रिणा ।
संकटेस्मिन्मया स्वामी जीवता त्यज्यते कथम् ॥ ३२५ ॥
पिता भवानयं पुत्रः क्षणेन्यस्मिन्महीपते ।
मय्यसंनिहितेमुष्य यद्योग्यं तद्विधीयताम् ॥ ३२६ ॥