पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५९ सप्तमस्तरङ्गः ।

सारल्यं खलगालिदानसहनं येषां न तत्संनिधौ ।
किंचित्कर्म कुकर्मदोष इति यद्विशाय संत्यज्यते ॥ ३०४ ॥
राजा चौर्यरतौत्सुक्यात्प्रतिगेहं परिभ्रमन् ।
स्वदारालिङ्गनैः प्रीतिं क्षणदासु न लब्धवान् ॥ ३०५ ॥
पारतंत्र्यकृतापारप्रीतिः परवधूरतिः ।
अभिलाषानलोत्सेके रागभाजां घृताहुतिः ॥ ३०६ ॥
तान्कुट्टनान्पुरस्कृत्य पञ्चषानेकदा नृपः ।
जिन्दुराजगृहं प्रायात्स रात्रौ चौर्यकामुकः ॥ ३०७ ॥
तत्रासीजिन्दुराजस्य स्नुषा परमपुंश्चली ।
स्वगृहे दत्तसंकेता नक्तं कलशभूभुजः ॥ ३०८ ॥
प्रविशन्तमधावंस्तं भषद्भिः सूचितं श्वभिः ।
धृतासयो गृहद्वारं चण्डालाचौरशङ्किताः ॥ ३०९ ॥
तान्हन्तुमुद्यतान्दृष्ट्वा तं क्षितौ पतितं भयात् ।
पृष्ठन्यस्तस्ववपुषो ररक्षुरनुयायिनः ॥ ३१० ॥
तेभ्यः स मुष्टिघातादि ददद्भ्यः कथमप्यभूत् ।
मैवं कलशदेवोयमित्युक्त्वा त्याजितो निजैः ॥ ३११ ॥
घ्राणहीनं पुरस्कृत्य नारीमभिससार यत् ।
तदेव कामिनस्तस्य नूनमासीदमङ्गलम् ॥ ३१२ ॥
स निर्यातो गृहात्कान्ताकटाक्षविवशीकृतः ।
पथि कालीकटाक्षाच्च दैवान्न प्रलयं ययौ ॥ ३१३ ॥
निजचित्तापराधेन कुर्वन्नीतिव्यतिक्रमम् |
अस्पृश्येभ्यः परिभवं भूपालोप्युपलब्धवान् ॥ ३१४ ॥
इन्द्रियैरिन्द्रचन्द्राद्या हेपिता यैः सुरा अपि ।
अपरिम्लानमानत्वं तैर्मर्त्यस्याथवा कथम् ॥ ३१५ ॥