सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

योव्याजमूर्खो वैद्यत्वगुरुत्वाहंकृतः क्रमात् ।
पंदकृद्रजकादीनां शिल्पिनां गुरुतामगात् ॥ २८२ ॥
स भट्टपादानुल्लाघांश्चक्रे मूर्ध्यधिरोपयन् ।
श्रेष्ठी विडालविष्ठौघहिङ्गुगन्धोत्कटं करम् ॥ २८३ ॥
एवं प्रकृतिनिःसारैरपि गर्जद्भिरन्वहम् ।
आन्ध्यं स गुरुभिर्निन्ये दिवसोम्वुधरैरिव ॥ २८४ ॥
ये दीर्घजागरा रात्रौ भूरिभोजनसेविनः ।
अजीर्णपिशितोद्गारनित्यदुर्गन्धकंधराः ॥ २८५ ॥
अवस्करप्रणालाभाः पृष्ठे क्षिप्तमधः पथैः
शौचपाथ इव क्षिप्रमुज्झन्ति मधुनिर्झरम् ॥ २८६ ॥
नक्तमातोद्यवाद्यज्ञैस्तैः सार्धं कृतसेवनः |
२५७
चारणो वेणुवाद्यज्ञो योषितां धर्षयन्हठात् ॥ २८७ ॥
कनकाख्ये मदोद्दामे क्रुद्धे हलधरात्मजे ।
स्तम्भे निवध्य तद्भूत्यैरिछन्ननासो व्यधीयत ॥ २८८ ॥
यो विटश्चमको नाम लूनाङ्गोमङ्गलावहः ।
शनैर्लेभे स वात्सल्यं कौट्टन्यान्नवभूपतेः ॥ २८९ ॥
प्रसादवित्तो भूभर्तुरन्तरे मत्रिणामपि ।
लब्धप्रतिष्ठः स प्राप ठक्कुराख्यां नृकुक्कुरः ॥ २९० ॥
प्रथां प्राप्तस्त्रपाहेतुं स भञ्जन्वंशमञ्जसा |
प्रागेव नासावंशस्य भञ्जनं वह्वमन्यत ॥ २९१ ॥
तेनोद्दीपितदौःशील्यः स यच्चक्रे त्रपोज्झितः ।
अवाच्यमपि वृत्तान्तं मध्यपातात्तदुच्यते ॥ २९२ ॥
कल्लनाख्या स्वसा राज्ञो नागाख्या च तदात्मजा ।
परदारप्रसक्तेन संभोक्तुं नावशेषिता ॥ २९३ ॥

१ पादूकृत् इति पाठो भाति । २ योषितो इति स्यात् । ३३