सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ राजतरङ्गिणी

सर्वास्थानास्त्रपूजादिविधाने पार्थिवोचिते |
पितुः सहायकल्पः स पौरोहित्यमिवाकरोत् ॥ २४६ ॥
अनिमित्तप्रहृष्टानामनिमित्तानुतापिनाम् ।
न क्वापि चलचित्तानां तिरश्चामिव निश्चयः ॥ २४७ ॥
दापयित्वा पतिं राज्यं निर्वन्धेनापि तावता ।
सूनौ बभूव यद्राशी क्षिप्रमेवानुतापिनी ॥ २४८ ॥
सेर्या स्नुषाणामुत्कर्षे पार्थिवप्रमदोचितम् ।
वेषालंकरणादौ सा रूक्षचित्ता न चक्षमे ॥ २४९ ॥
दासीकृत्यं तया पुत्रमहिप्यः कारिताः सदा ।
गृहोपलेपने यावन्न वैमुख्यमदर्शयन् ॥ २५ ॥
पुत्रो विग्रहराजस्य क्षितिराजाभिधस्ततः ।
राज्ञः पितृव्यजो भ्राता कदाचित्पार्श्वमाययौ ॥ २५१ ॥
तस्मै न्यवेदयत्खेदं स चित्तस्योपतापकम् ।
पुत्रे भुवनराजाख्ये राज्यलुब्धेतिविप्लुते ॥ २५२ ॥
स हि तस्यात्मजो नीलपुराराज्यं समाश्रितः ।
तद्वलैः पितुरारब्धि विधातुं सोद्यमोभवत् ॥ २५३ ॥
नाम भागवतानां च पूज्यानां स्वपितुर्व्यधात् ।
दत्तयज्ञोपवीतानां शुनामशुचिमानसः ॥ २५४ ॥
क्षितिराजः स्ववध्वां च विरुद्धायां विशुद्धधीः ।
मनस्तापापहे चक्रे सर्वत्यागामृते स्पृहाम् ॥ २५५ ॥
राज्यं कलशपुत्राय ज्येष्ठानन्तरजन्मने ।
रामलेखाभिधानायां राज्ञ्यां जाताय सत्वरम् ॥ २५६ ॥
दत्त्वा स्तनंधयायापि तदोत्कर्षाभिधाय सः ।
राजर्पिर्विवुधैः सार्धं विदधे तीर्थसेवनम् ॥ २५७ ॥