पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५३
सप्तमस्तरग:


अथास्थाने रणादित्यो राजपुत्रान्निवेशयन् |
चिन्तयव्राज्यमाहात्म्यं प्रतिपत्तिषु निष्टुर: ॥ २२४॥
अनन्तो राजपुत्रोयं देवेति कथयन्वचः |
कृकाटिकान्यस्तदस्तः क्षितिपालं न्यवेदयत्‌ ॥ २३५ ॥
कुपितेन स भूभर्त्रा परिवृत्यावलोकित: ।
एवं कृतस्मितो व्यक्तं तमूचे नीतिनिष्टुर: ॥ २३६ ॥
इत्थं यत्र निवेदयन्ते कन्यकुञादिभूभुजः ।
तत्रैव त्यक्तराज्यस्य कान्यास्तु प्रक्रिया तव ॥ २३७ ॥
दिने दिने सानुशयो नियतं भविता भवान्‌ |
नाभिमानपरित्यागः कर्तुं शक्यो मुनेरपि ॥ २३८ ॥
सुदूरदर्शिनां तत्र मन्त्रिणां हृदयंगमम्‌ ।
राजा तस्य वचः श्रुत्वा प्रतिवाक्याक्षमोनभवत् ॥ २३९ ॥
दष्ट्वान्येद्दुर्नवं भूपं राजचक्रेण सेवितम्‌ ।
नवेतरं च सहितं परिमेयैः परिच्छदैः ॥ २४० ॥
धीमान्हलधरो युत्क्या कृतकासूयया नृपम्।
एवं निर्भर्त्संयल्लक्ष्मीं तं प्रत्याजीहरत्पुन: ॥ २४१ ॥
विधाय निःसुखं सूनुं राज्यभारार्पणाच्छिशुम् ।
कस्मात्स्वसुस्ब्रसापे न जि वाधेके ॥ २४२ ॥
तत्स्वयं राजकार्याणां कार्यमुदुहनं त्वया ।
अशून्यो यौवनाभोगैरयमस्तु सुतस्तव ॥ २४२ ॥
इत्युक्त्वा स पुनभूपमधिकारमजिग्रहत् ।
चक्रे कलशदेवं च कलया युक्तिवतम्॥ २४४ ॥
पित्रोरेवान्तिके कुर्वन्नाहाराद्यपि संततम्‌ ।
ततो बभूव कलशो नाममात्रमहीपति: ॥ २४५

१ निवेदयन्‌ इत्युचितम्‌ ।