पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ राजतरङ्गिणी

कालेनन्तमहीभर्तुर्वैरिविग्रहसंकटे ।
साहसान्युदजृम्भन्त तानि तानि क्षणे क्षणे ॥ २२२ ॥
राजेश्वरो द्वारपतिः श्रीमान्भद्रेश्वरात्मज: ।
डामरै: क्र्मराज्यस्थैरन्येपि बहवो हताः ॥ २२३ ॥
वीक्ष्य नीतिदृशा कार्यं भीत्या व्यवहरन्नपि ।
भृत्यतां निष्परिभवां को भुङ्क्ते नृपमन्दिरे ॥ २२४ ॥
दुष्प्रवादास्पदीभूतो देव्या निबिडसेवनात्‌ ।
आशाचन्द्रादिभि: क्रुद्धैर्बद्धो हलधरोप्यभूत्‌ ॥ २२५ ॥
स राज्ञा हृतसर्वस्वो बन्धनक्लेशमन्वभूत् |
भाग्यप्रभावे निःसारे सुखमेकान्ततः कुतः ॥ २२६ ॥
नृपेण बन्धनात्त्यक्तं तं श्रीः प्रत्यागता पुनः ।
आलिलिङ्ग सितच्छत्रलज्जास्मितसितानना ॥ २२७ ॥
स राइया: प्रावृष इव प्रणयेन क्षणे क्षणे ।
कोपप्रसादमेघार्कपर्यापातमन्वभूत् ॥ २२८ ॥
ततः सरलचित्तस्य क्रमेण समपद्यत ।
भार्याजितत्वं भूभर्तुर्दुर्विपाकार्पणोन्मुखम् ॥ २२९ ॥
अधिकारपरित्यागाद्दोषाननुशयावहान् ।
वदभ्दिर्वार्यमानणोपि प्राज्ञैर्हलधरादिभि: ॥ २३० ॥
पत्न्या संप्रेरित: शश्वत्तनयस्रेहमूढया ।
पुत्राय कलशायाभूद्राज्यं दातुं समुद्यतः ॥ २३१ ॥
यास्यस्यनुशयं राजन्नेवंवाद्यपि कारितः ।
सज्जं तेन रणादित्यनामा क्षत्ताभिषेचनम् ॥ २३२ ॥
एकान्नचत्वारिंशस्य वर्षस्य तनयः सिते ।
षष्टेह्नि बाहुलस्याभूदभिषिक्तो महिभुजा ॥ २३३ ॥