पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५१
सप्तमस्तरङ्ग:


क्षेमेण सूत्रितं पूर्वं सपादाग्रमुदग्रधीः ।
कर्मस्थानं स्फुटीचक्रे सर्वस्थानधुरंधरम्‌ ॥ २१० ॥
अभूद्वर्णकमूल्यादिलेखनं कनकस्य यत्‌ ।
राजायत्तं जनस्यार्थसंचयानां प्रकाशकम् ॥ २९१२९ ॥
स तन्निवारयामास भाविनां भूभुजां विदन्‌ ।
ज्ञानी संचितवित्तस्य दण्डाद्यायासकारिताम्‌ ॥ २१२
भर्त्सितानश्वशालीयान्धनदारापहारिण: ।
कांश्चिह्यापाद्य स शमं नित्ये लोकस्य विल्पवम् ॥ २१३ ॥
तेनायासह्र्ता नीतः कचत्स्वर्णै: सुरास्पदैः ।
शोभां मठाग्रहारैश्च वितस्तासिन्धुसंगमः ॥ २१४ ॥
भ्रातरश्च सुताश्चास्य लक्ष्मीपरिचयोन्मदा: ।
द्विरदा इव न क्कापि दानप्रणयितां जहुः ॥ २१५ ॥
तद्भ्रातृपुत्रो बिम्बाख्यः श्रीमान्वीरो वराहजः ।
द्वाराधिकारकार्यासीद्दानप्रलयवारिद: ॥ २१६ ॥
स डामरकुलाकालमृत्यु: स्वल्पानुगो भवन्‌ ।
खशाहवेजहत्प्राणान्पपलायनपराङ्मुखः ॥ २१७ ॥
चम्पायां सालभूपालमुन्मूल्यानन्तभूपतिः ।
तत्तन्नुपजयी नव्यं धराधवमरोपयत्‌ ॥ २१८ ॥
मन्त्रशून्येन शौर्येण परदेशेषु भूपतिः ।
हठप्रवेशान्विदधत्सोभूत्कच्छ्रगतोसकृत् ॥ २१९. ॥
तुक्कात्मजस्य कलरास्यारब्धो खिन्नसैनिकम्‌ ।
अमोचयद्धलधरो युक्त्या वल्लापुरादमुम्‌ ॥ २२० ॥
उरशां च प्रविष्टस्य वैरिरुद्धाध्वनो व्यधात्‌ ।
कम्पनाधिपतिस्तस्य मार्गान्संशोध्य निर्गमम्‌ ॥ २२१ ॥