पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ राजतरङ्गिणी

समरे वधबन्धादि म्लेच्छराजाः प्रपेदिरे ।
संप्राप हेमरत्नादि पुनः कश्मीरभूपतिः ॥ १७५ ॥
उत्तंसमुक्ताद्योताम्भःक्षालितास्रझलज्झलम् ।
रुद्रपालो दरद्वाजशिरो भर्तुरूपानयन् ॥ १७६ ॥
भ्रात्रोदयनवत्सेन कृतप्रायैस्तथा द्विजैः ।
तथाह्येवंविधास्तस्य वभूवुरवदालिकाः ॥ १७७ ॥
रुद्रपाले ततो लूतामयेन प्रमयं गते ।
अन्येपि शाहितनयाः क्षिप्रमेव क्षयं ययुः ॥ १७८ ॥
पालस्नेहान्ध्यविगमे शुद्धाशयजुषोभवत् ।
देवी सूर्यमती भर्तुर्दर्पणस्येव बिम्बिता ॥ १७९ ॥
सुभटापरनामा सा गौरीश्वरविधायिनी ।
पुण्यं वितस्तापुलिने निर्ममे सुभटामठम् ॥ १८० ॥
गोहेमहयरत्नादिप्रदानैः सुबइन्द्विजान् ।
सदाशिवप्रतिष्ठायामदरिद्रांश्चकार सा ॥ १८१ ॥
आशाचन्द्रापराख्यस्य कल्लनस्यातुजन्मनः ।
नाम्ना व्यधायि वात्सल्यात्साग्रहारो मठस्तया ॥ १२ ॥
सिल्लनाव्यस्य च भ्रातुर्भर्तुश्चाभिधया सती ।
मठौ चाकारयत्पार्श्वे विजयेशामरेशयोः ॥ १८३ ॥
अष्टोत्तरं चाग्रहारशतं श्रीविजयेश्वरे |
ब्राह्मणेभ्यो महापुण्यं विद्वद्भयः प्रत्यपादयत् ॥ १८४ ॥
पत्युर्नाम्नाप्यग्रहारान्प्रददावमरेश्वरे ।
त्रिशूलबाणलिङ्गादिप्रतिष्ठाश्च विनिर्ममे ॥ १८५ ॥
दंपती राजराजाख्ये मृते पुत्रे प्रचऋतुः ।
सदाशिवान्तिके राजवेश्म संत्यज्य तौ स्थितिम् ॥ १६ ॥