पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

x 1 सप्तमस्तरङ्गः ।

एवं तत्र कृतज्ञेन भृत्येभ्यः प्रतिपादिता ।
विलब्धिस्तेन दीन्नारकोटिषण्णवतेः क्रमात् ॥ १६३ ॥
राज्ञो रणान्निवृत्तस्य दुग्धसेकैः करात्सरुः ।
स्थिरग्रहदृढः कृष्टश्चिरेणेति जनश्रुतिः ॥ १६४ ॥
अहो महत्त्वं भूभर्तुनो देशान्तरागतः ।
तादृक्त्रिभुवनो येन संविभेजे विमन्युना ॥ १६५ ॥
ब्रह्मराजाभिधस्तेन वन्धुर्गञ्जाधिपः कृतः ।
रुद्रपालकृतद्वेषो विरक्तश्चलितो ययौ ॥ १६६ ॥
सप्तभिम्लेंच्छभूपालैः समं मिलितडयमरः ।
तेनानीतो दरद्वाजो यत्नादचलमङ्गलः ॥ १६७ ।।
क्षीरपृष्ठाभिधं ग्रामं प्राप्तस्य समरोत्सुकः ।
तस्याग्रं विक्रमोदग्रो रुद्रपालो विनिर्ययौ ॥ १६८ ॥
श्वो व्यवस्थापिते युद्धे सैन्याभ्यां दरदीश्वरः ।
क्रीडन्पिण्डारकाव्यस्य नागस्य भवनं ययौ
दुर्नयाचरणात्तत्र पार्श्वस्थैर्वारितोपि सः
प्लवमानस्य मत्स्यस्य गात्रे कुन्तमपातयत् ॥ १७० ॥
अथोजगाम गोमायुवपुः कुण्डाद्भुजंगमः ।
स च तं मृगयौत्सुक्यादधावद्दरदीश्वरः ॥ १७१ ॥
तमापतन्तमालोक्य व्यवस्थोन्मूलनं विदत् ।
आस्कन्दाशकि भूभर्तुः सैन्यं युद्धाय निर्ययौ ॥ १७२ ॥
अभूत्ततोस्त्रसंघर्षसंजातानलसंहतिः ।
२४७
कृतस्वर्गाङ्गनोद्वाहो वीराणां समरोत्सवः ॥ १७३ ॥
तस्मिन्महाभटाटोपे शिरश्छिन्नं दरत्पतेः ।
रुद्रस्य रौद्रमहसः संप्ररूढं यशः पुनः ॥ १७४ ॥