पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ राजतरङ्गिणी

उपयेमे मनोज्ञत्वाज्ज्येष्ठामासमतिं स्वयम् ।
यया मठः स्वाभिधया विदधे त्रिपुरेश्वरे ॥ १५१ ॥
तस्याः किंचिद्वयोन्यूनां स्वसारं यो यवीयसीम् ।
अथ सूर्यमतीं देवीं भूभुजे परिणीतवान् ॥ १५२ ॥
रुद्रेण भूपतिः सख्या स कर्णसुखदायिना ।
पात्रीकृतो दुर्नयानां कर्णेनेव सुयोधनः ॥ १५३ ॥
कम्पनाधिपतिस्तत्र क्षणे त्रिभुवनो बली |
आययौ भूपतेर्हर्नु राज्यं संभृतडामरः ॥ १५४ ॥
आकृष्टाशेषकटके तस्मिन्योद्धुमुपागते ।
एकाङ्गाः सहयारोहा राजपक्षं न तत्यजुः ॥ १५५ ॥
असिना लङ्घयन्प्रासानमोघाञ्छ्राध्यविक्रमः ।
प्रजहारानन्तदेवः स्वयं त्रिभुवनं रणे ॥ १५६ ॥
संनाहरक्षिताङ्गः स दृढप्रहृतिपीडितः ।
विद्रौ वदनेनासृक्स्वप्रतापमिवोद्वमन् ॥ १५७ ॥
विनयच्छन्नशौटीर्यः शिशुप्रायः स भूपतिः ।
दृष्ट्वा बलमसंभाव्यं तस्मिंस्त्यक्त्वा रणं गते ॥ १५८ ॥
शमालाडामरं नन्तं प्रासैरभिनवाभिधम् |
शालास्थले व्यधाच्याघ्यविक्रमो मोघविक्रमम् ॥ १५९ ॥
मांसासृग्वेष्टनाद्यष्टीभूतखड्गो भ्रमन्त्रणे ।
भुवनक्षोभकृदभूङ्गैरवोनन्तभूपतिः ॥ १६० ॥
पश्यन्प्रहारलूनाङ्गानेकाङ्गान्स पदे पदे ।
निवेद्यमानानग्रस्थैर्नामग्रहणपूर्वकम् ॥ १६१ ॥
क्षितिभृज्जातदाक्षिण्यो विलब्धिस्थावरे ततः ।
चाञ्चल्यमक्षपटलादेकाङ्गानां न्यवारयत् ॥ १६२ ॥

युग्मम् ||