पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

अथाजगाम स्थविरः पितृव्यो बालभूपतेः ।
राज्यं विग्रहराजाख्यो र्हन्तुं विततविक्रमः ॥ १३९ ॥
स लोहरात्प्रचलितो दग्ध्वा द्वारमतर्कितः ।
दिनद्वयेन सार्धेन नगरं सत्वरोविशत् ॥ १४० ॥
श्रीलेखाप्रेरिताः सेनाः प्रविष्टं लोठिकामठम् ।
उद्दीपिता नयस्तत्र निजघ्नुस्तं सहानुगम् ॥ १४१ ॥
मठद्वयं ततः कृत्वा स्वस्य भर्तुः सुतस्य च ।
तस्थौ व्ययवती राज्ञी राज्यद्रोहोद्यतानिशम् ॥ १४२ ॥
ततो नरपतिः किंचिच्छनैः शिथिलेशवः
अतिव्ययादिव्यसनी गर्भेश्वरतयाभवत् ॥ १४३ ॥
तस्यासन्रुद्रपालाद्याः शाहिपुत्राः परं प्रियाः ।
अनल्पवेतनादानै राज्योत्पत्त्यपहारिणः ॥ १४४ ॥
कृतप्रत्यहनिर्वाहः सार्धलक्षेण भूभुजा ।
२४५
रुद्रपालो दरिद्रत्वं कदाचिदपि नात्यजत् ॥ १४५ ॥
दिद्दापालः क्षमापाललब्धया प्रतिवासरम् ।
सहस्राणामशीत्यापि शेते स्म न सुखं निशि ॥ १४६ ॥
अनङ्गपालवेतालश्चक्रे क्षमापाललालितः ।
शश्वत्सुवर्णगीर्वाणप्रतिमापाटने मनः ॥ १४७ ॥
रुद्रपालः परित्राता धनप्राणादिहारिणाम् ।
बभूव चौरचण्डालप्रायाणां वज्रपञ्जरः ॥ १४८ ॥
कायस्था रुद्रपालाप्ताः प्रजानां पीडनं व्यधुः ।
चकारान्धमठं श्रीमानुत्पलाख्यो यदग्रणीः ॥ १४९ ॥
कियद्भूपालवाल्लभ्यमन्यत्तस्याभिधीयताम् ।
जालन्धराधिपस्येन्दुचद्रस्येन्दुमुखीं सुताम् ॥ १५० ॥

१ हर्तु इत्युचितः पाठः ।