पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२७
षष्ठस्तरङ्गः


तेषु तेषु प्रदेशेषु किमुक्तैर्भूरिभिः शुभैः ।
सा प्रतिष्ठा व्यरचयञ्चतुःषष्टिमिति श्रुतिः ॥ ३०६ ॥
जीणोंद्धारकृता देव्या पुष्टभाकारमण्डलाः ।
प्रायः सुरगृहाः सर्वे शिखावप्रावृताः कृताः ॥ ३०७ ॥
क्रीडाचड्क्रमणे राज्ञ्याः पङ्ग्वा विग्रहवाहिनी ।
वल्गाभिधा वैवधिकी वल्गामटमकारयत्‌ ॥ ३०८ ॥
तीर्थासेवनमोनभागपि तिमिः सक्तः स्वकुल्याशने
वाताश्याङ्रसते शिखी घनपयोमात्राशनोप्यन्वहम्‌ ।
विश्वस्ताञ्जलचारिणः प्रकटितध्यानोपि भुङ्क्ते बकः ।
सत्कर्माचरणेपि दोषविरतौ न प्रत्ययः पापिनाम्‌ ॥ २०९ ॥
चर्षणी वषमात्रेण शान्तशोका बभूव सा ।
भोगोत्सुकार्भके तसिन्नप्तरि व्यभिचारकृत्‌ ॥ ३१० ॥
वर्ष एकान्नपञ्चाशे नीतः पक्षे सिते क्षयम्‌ ।
स मार्गशीर्षद्धादश्याममार्गव्यग्रया तया ॥ ३११ ॥
पौत्रस्त्रिभुवनो नाम मार्गशीर्षे सितेहनि ।
पञ्चमेप्येकपञ्चाशे वर्षे तद्वत्तया हतः ॥ ३१२ ॥
अथ मृत्युपथे राज्यनाम्नि स्वैरं निवेशितः ।
ऋूरया चरमः पौत्रो भीमगुप्ताभिधस्तया ॥ ३१३ ॥
तस्मिन्नवसरे वृद्धः फल्गुणोपि व्यपद्यत ।
निगूढक्रोर्यदौःशील्या दिद्दा यद्रौरवादभूत्‌ ॥ २१४ ॥
बभूव साथ सुस्पष्टदुष्टचेष्टाशतोत्कटा ।
अरष्टवक्रपटा मत्तदन्तिमूर्तिरिवोत्कटा ॥ ३१५ ॥
महाभिजनजातानामपि हा धिङ्निसर्गतः ।
सरितामिव नारीणां वृत्तिर्निम्नानुसारिणी ॥ २१६ ॥