पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी

सा शोकपिहितक्रौर्या तस्थै प्रशमशीतला ।
रविरत्नशलाकेव ध्वान्तच्छन्नोष्मवैकृता ॥ २९४ ॥
ततः प्रभृत्यद्भुताभिस्तस्या धर्मप्रवृत्तिमिः।
कुकर्मभिरुपोढापि लक्ष्मीः प्राप्ता पवित्रताम्‌ ॥ २९५ ॥
नगराधिपतिर्भुय्यः सिन्धुभ्राता शुभाशयः।
तदीयधर्मचर्यायां बभूव परिपोषकः ॥ २९६ ॥
सा तेनोत्पादितानर्धजनरागा गतैनसा ।
ततः प्रभृत्यभूद्देवी सर्वलोकस्य संमता ॥ २९७ ॥
राज्ञः स सचिवः सत्यं दुष्प्रापो लुप्तचण्डिमा ।
कुर्याद्यः सुखसेव्यत्वं हेमन्त इव भास्वतः ॥ २९८ ॥
सा निर्मात्री विपन्नस्य सूनोः सुकृतवृद्धये ।
अभिमन्युस्वामिनोभूदभिमन्युपुरस्य च ॥ २२९ ॥
अथ दिद्दापुरोपेतो दिद्दास्वामी तया कृतः ।
मठश्च मध्यदेशीयलाटाशौडोचसंश्रयः ॥ ३०० ॥
भर्तुः कङ्कणवर्षस्य पुण्योत्कर्षाभिवृद्धये ।
चकार कङ्कणपुरं रमणी स्वर्णवर्षिणी ॥ ३०१ ॥
श्वेतशैलमयं चान्यं सा दिद्दास्वामिनं व्यधात्‌ ।
धवलं चरणोद्भूतगङ्गाम्भःप्लवनैरिव ॥ ३०२ ॥
चक्रे काश्मीरिकाणां च दैशिकानां समाश्रयः।
तयात्युञ्चतुःशालो विहारश्चारुसंपदा ॥ ३०२ ॥
श्रीसिहस्वामिनं नाम्ना सिंहराजस्य सा पितुः।
मठं च विदधे स्थित्यै दैशिकानां द्विजन्मनाम्‌ ॥ ३०४ ॥
मठप्रतिष्ठावैकुण्ठनिर्माणाद्यैः स्वकर्मभिः
तयातिपावनश्चक्रे वितस्तासिन्धुसंगमः ॥ २०५ ॥