उत्पिञ्जभीतया राज्ञ्या त्यक्त्वा परिभवत्रपाम् ।
ते यत्नात्समघट्यन्त मानः स्वार्थार्थिनां कुतः ॥ २८२ ॥
स्थानेश्वरादिर्भिमुख्यैडामरैः समम् ।
ते भीताः पुरतस्तस्याः पुनरेत्य जजृम्भिरे ॥ २८३ ॥
अथ तद्भीतया राज्ञ्या रक्के प्रमयमागते ।
आनीतः फल्गुणो भूयो वीरार्थिन्या निजान्तिकम् ॥२८४॥
राजकार्याणि कुर्वाणः स भूयः शस्त्रमग्रहीत् ।
न्यस्तशस्त्रोपि यत्सत्यं दुस्त्यजा भोगवासना ॥ २८५ ॥
महिमा राजपुर्यादिजयिनस्तस्य पश्चिमः ।
अद्भुतो वृद्धबन्धक्या अवरुद्ध इवाभवत् ॥ २८६ ॥
अभूदुदयराजस्य देवीभ्रातुरतिप्रियः ।
यः सहायोक्षपटले जयगुप्ताभिधः कुधीः ॥ २८७ ॥
अन्येधिकारिणस्तेन सहिताः क्रूरवृत्तयः ।
कश्मीरेषु व्यधुर्लुण्टिं दुष्कृतैस्तदुपार्जितैः ॥ २८८ ॥
दौःशील्यभाजो मातुश्च पाप्मभिर्विधुरीकृतः ।
अमिमन्युः क्षणे तस्मिन्क्षयरोगेण पस्पृशे ॥ २८९. ॥
पण्डितः पुण्डरीकाक्षो विद्त्पुत्रैरुपस्कृतः ।
कृतश्रुतः स वैदुष्यतारुण्याभ्यां विदिद्युते ॥ २९० ॥
तथा विशुद्धप्रकृतेस्तस्य दुष्कृतसंगमः ।
शोषाधायी शिरीषस्य रविताप इवाभवत् ॥ २९२ ॥
अर्धमानः प्रजाचन्द्रस्तृतीयस्यां स कार्तिके ।
शुक्लेष्टचत्वारिंशाब्दे ग्रस्तो नियतिराहुणा ॥ २९२ ॥
तत्पुत्रो नन्दिगुप्तस्तु वालश्चक्रे निजासने ।
वृद्धस्तनयशोकेस्तु दिद्दाया हृदये पदम् ॥ २९३ ॥
१ कृतश्रुतो यो इद्युचितम् । २ वधमान: इति स्यात् ।