पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी


संप्रवृत्तोपचारायां गतायां तत्पथात्तथा ।
राश्यां नाशममात्यस्य प्रीतिः संविच्च सा ययौ ॥ २७१ ॥
तयोस्ततः प्रभृत्येव निष्कृष्टस्रेहयोः कृतम्‌ ।
चाक्रिकैरतिरूक्षत्वं तिलपिच्याकयोरिव ॥ २७२ ॥
कुलिशं सर्वलोहानामम्भसां शैलसेतवः ।
अभेद्याः प्रतिभाव्यन्ते न किंचिदसतां पुनः ॥ २७३ ॥
ये बालादपि संमूढाः प्राज्ञाः सुरगुरोरपि ।
तेषां न विद्मः किं तावन्निर्माणपरमाणवः ॥ २७४ ॥
विश्वासोज्झितधीः शिशुन्कलयते काकोन्यदीयान्निजा-
न्हंसः क्षीरपयोचिभागकुशलस्त्रस्यत्यसाराद्धनात्‌ ।
लोकावेक्षणतीक्ष्णधीः खलगिरं जानाति सत्यां नृपो
धिग्वैदग्ध्यविसुग्धताव्यतिकरस्पृष्ठं विधानं विधेः ॥ २७५ ॥
मूढाचरणहीना सा श्रुतिबाह्यतया तया ।
वैधेयविप्रप्रकृतिरिव प्रायाद्विगर्ह्यताम्‌ ॥ २७६ ॥
उद्धेजितस्तया शश्वत्तथा स नरवाहनः ।
यथा विमाननोत्तप्तः स्वयं तत्याज जीवितम्‌ ॥ २७७ ॥
प्रकुप्यत्यप्रतीकार्ये स्वतेजस्तप्तचेतसाम्‌ ।
शरणं मरणं त्यक्त्वा किमिवान्यद्यशोर्थिनाम्‌ ॥ २७८ ॥
शशिहीनेव रजनी सत्यत्यक्तेव भारती ।
विरराज न राजश्रीर्नरवाहनवर्जिता ॥ २७९ ॥
सा क्रौर्याभ्यासविषमा हन्तुं विततविक्रमान्‌ ।
संप्रामडामरसुतान्समीपस्थानचिन्तयत्‌ ॥ २८० ॥
निजसुत्तरघोषं ते तद्भयेन विनिर्गताः ।
कय्यकद्वारपत्यादीन्कृरब्धीन्व्यपादयन्‌ ॥ २८१ ॥