पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ i, राजतरङ्गिणी

नवावमानखिन्नः स मिलितानन्तसैनिकः ।
प्रत्यावृत्त्य ततो मानी वाराहं क्षेत्रमाययौ ॥ २४ ॥
श्रुत्वा समेतसैन्यं तं प्रत्यायातं प्रतापिनम् ।
आस्कन्दशङ्किनी दिद्दा सामात्या समकम्पत ॥ २०५ ।।
तस्मिन्क्षेत्रे गतं शान्तं विलप्य स्वामिनं चिरम् ।
वराहपादसविधे तेन शस्त्रं समर्पितम् ॥ २६ ॥
द्रोहसंभावनापापं शस्त्रत्यागेन मत्रिणा |
स्वस्य संमार्जितं तेन राजमातुश्च साध्वसम् ॥ २०७ ॥
युक्तायुक्तविचारबाह्यमनसः सेवा महद्वैशसं
क्रुद्धेस्मिन्प्रतिकारकर्म गहनद्रोहापवादावहम् ।
येन न्यूनगुणेडशोपकरणीभावोपि तस्मै परं
कोपः कोपि विवेकिनः समुचितः शास्त्राय शस्त्राय वा २०८
पर्णोत्समेव शनकैः ससैन्ये फल्गुणे गते ।
विगताध्यापका बाला इवामोदन्त मत्रिणः ॥ २०९ ॥
योगक्षेमौ चिन्तयन्ती क्षेमगुप्तवधूरपि ।
अनिशं प्रजजागार स्वयं कण्टकपाटने ॥ २१० ॥
राज्यप्रार्थी पर्वगुप्तो मत्रिणौ कोशपीथिनौ ।
अजिग्रहत्करौ पूर्व पुत्र्योय छोजभूभटौ ॥ २११ ॥
तयोः प्रजातौ तनयौ ख्यातौ महिमपाटलौ ।
अवर्धिषातां यौ राजमन्दिरे राजपुत्रवत् ॥ २१२ ॥
तौ तत्रावस्थितावेव तत्कालं राज्यलालसौ ।
संमत्र्य समगंसातामुद्दामैर्हिम्मकादिभिः ॥ २१३ ॥
बलिनौ ताववलया राज्ञ्यापास्तौ नृपास्पदात् ।
समन्यू स्वगृहादास्तां यावत्कृतगतागतौ ॥ २१४ ॥

१ शान्ति इत्युचितम् ।