पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१३
षष्ठस्तरङ्गः

षड्विंशवत्सराषाढवहुलेह्नि त्रयोदशे।
द्रोहार्जितेन नृपतिः स राज्येन व्ययुज्यत ॥ १४८ ॥
अतीन्द्रियायां परलोकवृत्ता-
विहैव तीव्राशुभपाकशंसी ।
द्दश्येत नाशो यदि नाम नाशु
न कः कुकृत्येन यतेत भूत्यै ॥ १४९ ॥
क्षेमगुप्ताभिधानोभूदथ राजा तदात्मजः ।
आसवासेवनोत्सिक्तवित्ततारुण्यसंज्वरः ॥ १५० ॥
सोभूत्स्वभावदुर्व्रुत्तो नितरां दुजेनाश्रयात्‌ ।
कृष्णक्षपाक्षणो धघोरमेघान्ध इव भीतिकृत्॥ १५१ ॥
स्वतुल्यवेषालंकाराः शतं लालितका नृपम्‌ ।
तं फल्गुणप्रभृतयो दुराचाराः सिषेविरे ॥ १५२ ॥
द्यूतासवाङ्गनासेवाव्यसनेपि स पार्थिवः ।
विटनिर्लुण्ठ्यमानोपि नाभूल्लक्ष्मीवहिष्कृतः ॥ १५३ ॥
रागी मधुप्रणयवान्विहिताक्षसक्ति-
र्यः सख्यमेति मधुपैर्हृतकोशसारैः ।
पद्मे प्रयाति दिनमात्रमपि प्रसक्तिं
श्रीस्तत्र चेत्किमिव तन्न कुतूहलाय ॥ १५४ ॥
विटाः प्राविष्ठा हृदयं जिप्णुजा वामनादयः ।
पिशाचस्येव रुचितामशुचिं तस्य चक्रिरे ॥ १५५ ॥
परोपहासकुशलः परनारीरतिप्रियः ।
परायत्ताशयस्तथौ पार्थिवोनर्थतत्परः ॥ २५६ ॥
ष्ठीवनं श्मश्रुमालासु गालयः श्रोत्रपालिषु ।
तेन क्षिप्नाः प्रर्ताक्ष्याणां करोटीषु च टक्कराः ॥ १५७ ॥