पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ राजतरङ्गिणी

अथ जातोदरव्याधिर्मजातो नायमित्यसौ ।
जानन्संग्रामदेवाख्यं परिवर्ज्य निजात्मजम् ॥ ९० ॥
समर्प्य सचिवैकाङ्गसामन्तानभ्यषेचयत् ।
रामदेवात्मजं राज्ये वर्णटं प्रपितृव्यजम् ॥ ९१ ॥
युग्मम् ॥
शक्ये राज्यादपाकर्तु शिशावनभिषेचिते ।
निराशाः समपद्यन्त तदा राज्यजिहीर्षवः ॥ ९२ ॥
स पर्वगुप्तकौटिल्यप्रयुक्तेरुदयोन्मुखः ।
विपाककालस्तत्राह्नि भङ्गोन्मुख इवाभवत् ॥ ९३ ॥
राजधानीस्थितस्यापि वर्णटो राज्यदायिनः ।
आरोग्यवार्तयाप्यासीन्मुमूर्षोरनिरीक्षकः ॥ ९४ ॥
ततः सानुशयो राजा ताम्यन्त्रैर्यत मत्रिभिः ।
राज्यं संग्रामदेवाय दातुमाश्वासकारिभिः ॥ ९५ ॥
राजाज्ञया निशामेकां बद्धोष्टस्तम्भमण्डपात् ।
बहिर्दत्तार्गलात्प्रातर्वर्णटो निरवत्स्यत ॥ ९६ ॥
भयात्प्रजागराद्वापि तद्भुत्यानां विवेकनाम् ।
आस्थानमण्डपं प्राप पायुक्षालनभूमिताम् ॥ ९७ ॥
एकाहराजपुरुषस्तदासिं विजयेश्वरे ।
व्रीडाद्देवप्रसादाख्यो राजवीजी समार्पयत् ॥ १८ ॥
अथाभिषिच्य संग्रामदेवं तीव्रीभवद्यथः ।
स राजधान्या निर्गत्य मर्तु निजमठं ययौ ॥ ९९ ॥
धीः केशश्मश्रुवपने शिरःशाटकवर्जनम् ।
काषायग्रहणोद्वेगः शस्त्रत्यागग्रहश्च यः ॥ १०० ॥

१ निरवास्थत इति स्यात् । २ विरेकिणाम् इत्युचितम् ।