षष्ठस्तरङ्गः ।
सुभगंकरणं किंचिञ्चण्डालतरुणेभवत् ।
तं यत्प्रभावविवशा भेजे राजवधूरपि ॥ ७८ ॥
सा वा चण्डालकुलजा स वा कार्मणकर्मवित् ।
अन्यथा संगमः किं स्यादसंभाव्यस्तथाविधः ॥ ७९ ॥
सोभूत्केन प्रकारेण तया सह समागतः ।
इत्येष लेभे वृत्तान्तः प्रतिभेदं न कुत्रचित् ॥ ८० ॥
केवलं प्रत्यभात्तादृक्पापिनोः प्रेम तत्तयोः ।
दृग्व्यापारेक्षणात्क्षिप्रं हाडिनाम्नोधिकारिणः ॥ ८१ ॥
तमर्थमथ तथ्येन वीक्ष्य प्रणिधिभिर्नृपः ।
प्रायश्चित्तानुचरणक्षामः कृष्णाजिनं दधौ ॥ ८२ ॥
कुपितोपि स यन्नां न्यवधीद्रागमोहितः ।
तेनैवागात्पुरोभागिवितर्कातङ्कपात्रताम् ॥ ८३ ॥
डोम्बोच्छिष्टानुगासङ्गादशुचित्वं यशस्करे ।
संक्रान्तं कुष्टिसंस्पर्शात्कुष्ठं दुःखमिवाभवत् ॥ ८४ ॥
सामान्येन सता कैश्चित्सदृशैः शुभकर्मभिः ।
जन्मान्तरीयैः साम्राज्यं मया प्रापीति चिन्तयन् ॥ ८५ ॥
साम्राज्यकामो नृपतिर्भाविष्वपि स जन्मसु ।
युक्त्या प्रादान्निरातङ्कां राज्यलक्ष्मी द्विजन्मने ॥ ८६ ॥
भूभुजा दानशौण्डेन पैतृके स्थण्डिले कृतः ।
छात्राणामार्यदेश्यानां तेन विद्यार्थिनां मठः ॥ ८७ ॥
मठाधिपतये तत्र च्छन्त्रचामरहासिनीम् ।
स नरेन्द्राश्रितां प्रादाढङ्कान्तःपुरवर्जिताम् ॥ ८८ ॥
वितस्तापुलिने राजा नानोपकरणान्वितान् ।
ब्राह्मणेभ्यः सोग्रहारान्पश्चपञ्चाशतं ददौ ॥ ८९ ॥
१ ददौ इत्युचितम् । २ यन्नैनं इति स्यात् । ३ नरेन्द्रश्रियं इति स्यात् । २०७