पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right२०३

षष्ठस्तरङ्कः २५३

ततोधिगतमित्येव सभ्येषु निगदत्स्वपि ।
अन्तरात्मा जगादेव नृपतेरर्थिनो जयम्‌ ॥ २९ ॥
मुहूर्त्तमिव संचिन्त्य राजान्याभिरभूच्चिरम्‌ ।
कथाभिरतिवचित्राभिर्मोहयन्सभ्यमण्डलम् ॥ २२ ॥
कथान्तराले सर्वेभ्यो गृह्णन्रत्नानि वीक्षितुम्‌ ।
हसन्प्रत्यर्थिनो हस्तादुपादत्ताङ्गुलीयकम् ॥ ३२ ॥
क्षणादेवाखिलैः स्थेयमित्थमेवेति सस्मितम् ।
वचो ब्रुवाणः प्रययौ पादक्षालनकैतवात्‌ ॥ २४ ॥
अभिज्ञानाय तत्रस्थः स वितीर्याङगुलीयकम्
भृत्यमेकं वणिग्वेश्म प्राहिणोदत्तवाचिकम् ॥ ३५ ॥ ` ६
स वणिग्गणनाध्यक्षं ययाचे साङ्गुलीयकः ।
यत्राब्दे पत्त्रमुत्पन्नं गणनापत्रिकां ततः ॥ ३६ ॥
निर्णयेद्य तया कृत्यमस्ति भाण्डपतेरिति ।
श्रुत्वादाद्गणनाध्यक्षस्तां गृहीताङ्गुलीयकः ॥ ३७ ॥
दीन्नाराणां दशशतीं तस्यां भूभृदवाचयत्‌ ।
व्ययमध्येधिकरणलेखकाय समर्पिताम्‌ ॥ २३८ ॥
तस्मै मितधनार्हाय बहुमूल्यार्पणान्नृपः ।
रेफे सकारं वणिजा कारितं निश्चिकाय सः ॥ ३९ ॥
सभायां तत्प्रदर्श्याथ पृष्ट्वा दत्त्वाभयं च तम्‌ ।
आनीय लेखकं सभ्यान्संजातंप्रत्ययान्व्यधात् ॥ ७० ॥
सभ्यैरभ्यर्च्यमानेन राज्ञा सार्थं वणिग्गृहम्‌ ।
वितीर्णमर्थिने देशात्प्रत्यर्थी च प्रवासितः ॥ ४२ ॥
कृताह्निकं भोक्तुकामं तं दिनान्ते च भूपतिम्‌ ।
अकालावेदनाद्विभ्यत्क्षत्तां जातु व्यजिज्ञपत्‌ ॥ ४२ ॥