पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी

देवः समाप्तकृत्योद्य विज्ञप्तौ श्वस्तव क्षणः ।
इत्युक्तो दर्शने प्राणव्यागी विप्रो बहिः स्थितः ॥ ४३ ॥
दत्तप्रवेशादेशोथ रुद्धसूदेन भूभुजा ।
द्विजः प्रविष्टः पृष्टश्च तीव्रार्तिरिदमब्रवीत् ॥ ४४ ॥
सुवर्णरूपकशतं भ्रान्त्वा देशान्तरेर्जितम् ।
गृहीत्वा श्रुतसौराज्यः स्वदेशमहमागतः ॥ ४५ ॥
त्वयि राजनि निश्चौरैरध्वभिर्विशतः सुखम् |
ह्योभवल्लवणोत्से मे दिनान्ते श्राम्यतः स्थितिः ॥ ४६ ॥
दीर्घाध्वलङ्घनक्लान्तस्तत्राहमकुतोभयः ।
मार्गारामतरोर्मूले त्रियामामत्यवाहयम् ॥ ४७ ॥
वेतनं ग्रन्थिबद्धं तदुत्थास्नोरपतन्मम ।
अरघट्टे समीपस्थे कक्षयोगादलक्षिते ॥ ४८ ॥
तस्मिन्दुरवरोहेतिनिर्वसुत्वाज्जहद्वपुः ।
सोहं हारितसर्वस्वः शोचन्रुद्धश्चिरं जनैः ॥ ४९. ॥
एकोध्यवसितः कोपि साहसे पुरुषोब्रवीत् ।
मह्यं दापितवित्ताय किं ददासीति मां ततः ॥ ५० ॥
तमस्म्यवोचं विवशस्तस्यार्थस्यास्मि कः प्रभुः ।
तुभ्यं यद्रोचते मद्यं तत्ततो दीयतां त्वया ॥ ५१ ॥
अवरुह्याधिरूढोथ रूपकेभ्यो द्वयं मम ।
स प्रादात्स्पष्टमेवाष्टानवतिं स्वीचकार तु ॥ ५२ ॥
व्यवहारा वचोनिष्ठा एव राज्ञि यशस्करे ।
निन्दन्व्यवस्थां तां लोकैर्न्यक्कृतोस्मीतिवादिभिः ॥ ५३ ॥
उपचारोक्तिसारल्यच्छलहारितवेतनः।
सोहं जहाम्यसुन्द्वारे दुर्व्यवस्थापकस्य ते ॥ ५४ ॥