सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी

निदाघे पुष्पताम्बूलीपर्णाद्यत्रातिशीतले ।
न्यस्यद्धिर्मालिकैर्दत्तात्सा जीवेद्भाटकादिति ॥ १९. ॥
ततो दिगन्तराद्भ्रान्त्वा विंशत्या वत्सरैरहम्‌ ।
लब्धाल्पवित्तः संप्राप्तो जन्मभूमिमिमां पुनः ॥ २०}
अन्विष्यता मया साध्वी स्ववधूर्दद्दशेथ सा ।
विवर्ण जीवन्ती प्रेष्यात्वेनान्यवेसश्मसु ॥ २१ ॥
किं दत्तजीविकापि त्वमीद्दशीं वृत्तिमाश्रिता ।
मयेति सा सदुःखेन पृष्टा स्वोदन्तमब्रवीत् ॥ २२ ॥
सोपानकूप संप्राप्ता त्वयि याते दिगन्तरम्‌ ।
लगुडैस्ताडयित्वाहं वणिजा तेन वारिता ॥ २३ ॥
तदन्या कास्ति मे वृत्तिरित्युक्त्वा विरराम सा।
तदाकर्ण्य निमग्नोहमन्तरे शोककोपयोः ॥ २४ ॥
कृतप्रायोपवेशोथ स्थेयैस्तैस्तेः पदे पदे ।
परत्यर्थिनो दत्तजयैः किमप्यस्मि पराजितः ॥ २५ ॥
जडत्वाद्वेद्मि न न्यायं न विक्रीतो मया पुनः ।
सापानकूप इत्यस्मिन्नर्थो प्राणा इमे पणः ॥ २६ ॥
सोहं विपद्ये क्षीणार्थो द्वारि शास्तुस्तव ध्रुवम् ।
वृजिनादस्थि चेद्भीतिर्वस्तु निर्णीयतां स्वयम्‌ ॥ २७ ॥
राजेति तेन विज्ञप्तो गत्वा धर्मासनं स्वयम्‌ ।
संघट्टय्याखिलान्स्थेयानासीत्तत्वं विचारयन्‌ ॥ २८ ॥
स्थेयास्तमूचुर्बहुशो विचार्यायं पराजितः ।
शाख्यादगणयन्न्यायं दण्ड्यो लिखितदूषकः ॥ २९ ॥
सोपानकूपसहितं विक्रीतं गृहमित्यथः।
राजा विक्रयपत्त्रस्थान्स्वयं वर्णानवाचयत्‌ ॥ २० ॥

१, स॑घटय्य इत्युचितम्‌